अर्थशास्त्रम्/अधिकरणम् १४/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ।। १४.२.०१ ।।

 कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ।। १४.२.०२ ।।

 माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ।। १४.२.०३ ।।

 श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ।। १४.२.०४ ।।

 तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ।। १४.२.०५ ।।

 एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ।। १४.२.०६ ।।

 श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ।। १४.२.०७ ।।

 श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ।। १४.२.०८ ।।

 कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ।। १४.२.०९ ।।

 अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ।। १४.२.१०अ ब ।।

 एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ।। १४.२.१०च्द् ।।

 गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ।। १४.२.११ ।।

 कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ।। १४.२.१२ ।।

 शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ।। १४.२.१३ ।।

 कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ।। १४.२.१४ ।।

 कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ।। १४.२.१५ ।।

 वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ।। १४.२.१६ ।।

 शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ।। १४.२.१७ ।।

 ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ।। १४.२.१८ ।।

 ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ।। १४.२.१९ ।।

 पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ।। १४.२.२० ।।

 परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ।। १४.२.२१ ।।

 पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ।। १४.२.२२ ।।

 मण्डूक-वसा-दिग्धोअग्निना ज्वलति ।। १४.२.२३ ।।

 तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ।। १४.२.२४ ।।

 मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ।। १४.२.२५ ।।

 वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ।। १४.२.२६ ।।

 पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ।। १४.२.२७ ।।

 उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ।। १४.२.२८अ ब ।।

 एतेषां मूल-कल्केन मण्डूक-वसया सह ।। १४.२.२८च्द् ।।

 साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ।। १४.२.२९अ ब ।।

 अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ।। १४.२.२९च्द् ।।

 हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ।। १४.२.३० ।।

 वैद्युतं भस्म-अङ्गि-शमनं ।। १४.२.३१ ।।

 स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ।। १४.२.३२ ।।

 चुल्ली-शोधनं प्रतीकारः ।। १४.२.३३ ।।

 पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ।। १४.२.३४ ।।

 कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ।। १४.२.३५ ।।

 समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ।। १४.२.३६ ।।

 प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ।। १४.२.३७ ।।

 शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ।। १४.२.३८ ।।

 चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ।। १४.२.३९अ ब ।।

 अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ।। १४.२.३९च्द् ।।

 अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ।। १४.२.४० ।।

 नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ।। १४.२.४१ ।।

 उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ।। १४.२.४२ ।।

 श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ।। १४.२.४३ ।।

 सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ।। १४.२.४४ ।।

 अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ।। १४.२.४५अ ।।

 आराज्यायैति निर्वादः समानः कोप उच्यते ।। १४.२.४५ब ।।