अर्थशास्त्रम्/अधिकरणम् १४/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 चातुर्वर्ण्य-रक्षा-अर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत ।। १४.१.०१ ।।

 काल-कूट-आदिर्विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मभिर्म्लेच्छ-जातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च पर-शरीर-उपभोगेष्ववधातव्यः ।। १४.१.०२ ।।

 राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानं कुर्युः । सत्त्र-आजीविनश्च रात्रि-चारिणोअग्नि-जीविनश्चाग्नि-निधानं ।। १४.१.०३ ।।

 चित्र-भेक-कौण्डिन्यक-कृकण-पञ्च-कुष्ठ-शत-पदी-चूर्णं उच्चि-दिण्ग-कम्बली-शत-कन्द(कर्दम?)-इध्म-कृकलास-चूर्णं गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णं भल्लातक-अवल्गु-जर-सम्युक्तं सद्यः-प्राण-हरम् । एतेषां वा धूमः ।। १४.१.०४ ।।

 कीटो वाअन्यतमस्तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ।। १४.१.०५अ ब ।।

 शोषयेदेष सम्योगः सद्यः-प्राण-हरो मतः ।। १४.१.०५च्द् ।।

 धाम-अर्गव-यातु-धान-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं आर्धमासिकः ।। १४.१.०६ ।।

 व्याघातक-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं कीट-योगो मासिकः ।। १४.१.०७ ।।

 कला-मात्रं पुरुषाणाम् । द्वि-गुणं खर-अश्वानाम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.१.०८ ।।

 शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतो यावच्चरति तावन्मारयति ।। १४.१.०९ ।।

 पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्र-गोप-चूर्णं पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णं वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तं अन्धी-करो धूमः ।। १४.१.१० ।।

 पूति-करञ्ज-पत्त्र-हरि-ताल-मनः-शिला-गुञ्ज-आरक्त-कार्पास-पलाल-अन्य-आस्फोट-काच-गो-शकृद्-रस-पिष्टं अन्धी-करो धूमः ।। १४.१.११ ।।

 सर्प-निर्मोकं गो-अश्व-पुरीषं अन्ध-अहिक-शिरश्चान्धी-करो धूमः ।। १४.१.१२ ।।

 पारावत-प्लवक-क्रव्य-अदानां हस्ति-नर-वराहाणां च मूत्र-पुरीषं कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनां च बीजानि गो-मूत्रिका-भाण्डी-मूलं निम्ब-शिग्रु-फणिर्ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णं इत्येष धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशो ।। १४.१.१३ ।।

 ।। यावच्चरति तावन्मारयति ।।

 काली-कुष्ठ-नड-शतावली-मूलं सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णं वा धूमः पूर्व-कल्पेनऽर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनां नेत्रघ्नः ।। १४.१.१४ ।।

 शारिका-कपोत-बक-बलाका-लेण्डं अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टं अन्धी-करणं अञ्जनं उदक-दूषणं च ।। १४.१.१५ ।।

 यवक-शालि-मूल-मदन-फल-जाती-पत्त्र-नर-मूत्र-योगः प्लक्ष-विदारी-मूल-युक्तो मूक-उदुम्बर-मदन-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१६ ।।

 शृङ्गि-गौतम-वृक-कण्टक-अर-मयूर-पदी-योगो गुञ्जा-लाङ्गली-विष-मूलिक-इङ्गुदी-योगः कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगो मद्न-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ।। १४.१.१७ ।।

 समस्ता वा यवस-इन्धन-उदक-दूषणाः ।। १४.१.१८ ।।

 कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमो नेत्र-वधं उन्मादं च करोति ।। १४.१.१९ ।।

 कृकलास-गृह-गोलिका-योगः कुष्ठ-करः ।। १४.१.२० ।।

 स एव चित्रं एक-अन्त्र-मधु-युक्तः प्रमेहं आपादयति । मनुष्य-लोहित-युक्तः शोषं ।। १४.१.२१ ।।

 दूषी-विषं मदन-कोद्रव-चूर्णं अपजिह्विका-योगः ।। १४.१.२२ ।।

 मातृ-वाहक-अञ्जलि-कार-प्रचलाक-भेक-अक्षि-पीलुक-योगो विषूचिका-करः ।। १४.१.२३ ।।

 पञ्च-कुष्ठक-कौण्डिन्य-कराज-वृक्ष-पुष्प-मधु-योगो ज्वर-करः ।। १४.१.२४ ।।

 भासन-कुल-जिह्वा-ग्रन्थिका-योगः खरी-क्षीर-पिष्टो मूक-बधिर--करो मास-अर्ध-मासिकः ।। १४.१.२५ ।।

 कला-मात्रं पुरुषाणां इत्समानं पूर्वेण ।। १४.१.२६ ।।

 भङ्ग-क्वाथ-उपनयनं औषधानाम् । चूर्णं प्राण-भृताम् । सर्वेषां वा क्वाथ-उपनयनम् । एवं वीर्यवत्तरं भव्ति ।। १४.१.२७ ।।

 इति योग-सम्पत् ।। १४.१.२८ ।।

 शाल्मली विदारी-धान्य-सिद्धो मूल-वत्स-नाभ-सम्युक्तश्चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान्दश-पुरुषान्दशति । ते दष्टा दशान्यान्दशन्ति पुरुषान् ।। १४.१.२९ ।।

 बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानां पुष्पैरेलक-अक्षि-गुग्गुलु-हालाहलानां च कषायं बस्त-नर-शोणित-युक्तं दंश-योगः ।। १४.१.३० ।।

 ततोअर्ध-धरणिको योगः सक्तु-पिण्याकाभ्यां उदके प्रणीतो धनुः-शत-आयामं उदक-आशयं दूषयति ।। १४.१.३१ ।।

 मत्स्य-परम्परा ह्येतेन दष्टाअभिमृष्टा वा विषी-भवति । यश्चएतदुदकं पिबति स्पृशति वा ।। १४.१.३२ ।।

 रक्त-श्वेत-सर्षपैर्गोधा त्रि-पक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येनौद्धृता यावत्पश्यति तावन्मारयति । कृष्ण-सर्पो वा ।। १४.१.३३ ।।

 विद्युत्-प्रदग्धोअङ्गारो ज्वालो वा विद्युत्-प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाअभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ।। १४.१.३४ ।।

 कर्मारादग्निं आहृत्य क्षौद्रेण जुहुयात्पृथक् । ।। १४.१.३५अ ब ।।

 सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ।। १४.१.३५च्द् ।।

 माल्येन चएक-पत्न्य्-अग्निं पुंश्चल्य्-अग्निं च सर्षपैः । ।। १४.१.३६अ ब ।।

 दध्ना च सूतिकास्वग्निं आहित-अग्निं च तण्डुलैः ।। १४.१.३६च्द् ।।

 चण्डाल-अग्निं च मांसेन चित-अग्निं मानुषेण च ।। १४.१.३७अ ब ।।

 समस्तान्बस्त-वसया मानुषेण ध्रुवेण च ।। १४.१.३७च्द् ।।

 जुहुयादग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ।। १४.१.३८अ ब ।।

 एष निष्प्रतिकारोअग्निर्द्विषतां नेत्र-मोहनः ।। १४.१.३८च्द् ।।

 अदिते नमस्ते । अनुमते नमस्ते । सरस्वति नमस्ते । देव सवितर्नमास्ते ।। १४.१.३९ ।।

 अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ।। १४.१.४० ।।