अर्थशास्त्रम्/अधिकरणम् १२/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:

 दैव-तेज्यायाम्(देवता-इज्यायाम्?) यात्रायां अमित्रस्य बहूनि पूजा-आगम-स्थानानि भक्तितः ।। १२.५.०१ ।।

 तत्रास्य योगं उब्जयेत् ।। १२.५.०२ ।।

 देवता-गृह-प्रविष्टस्यौपरि यन्त्र-मोक्षणेन गूढ-भित्तिं शिलां वा पातयेत् ।। १२.५.०३ ।।

 शिला-शस्त्र-वर्षं उत्तम-आगारात् । कपाटं अवपातितं वा । भित्ति-प्रणिहितं एक-देश-बद्धं वा परिघं मोक्षयेत् ।। १२.५.०४ ।।

 देवता-देह-ध्वज-प्रहरणानि वाअस्यौपरिष्टात्पातयेत् ।। १२.५.०५ ।।

 स्थान-आसन-गमन-भूमिषु वाअस्य गो-मय-प्रदेहेन गन्ध-उदक-प्रसेकेन वा रसं अतिचारयेत् । पुष्प-चूर्ण-उपहारेण वा ।। १२.५.०६ ।।

 गन्ध-प्रतिच्छन्नं वाअस्य तीक्ष्णं धूमं अतिनयेत् ।। १२.५.०७ ।।

 शूलकूपं अवपातनं वा शयन-आसनस्याधस्ताद्यन्त्र-बद्ध-तलं एनं कील-मोक्षणेन प्रवेशयेत् ।। १२.५.०८ ।।

 प्रत्यासन्ने वाअमित्रे जन-पदाज्जनं अवरोध-क्षमं अतिनयेत् ।। १२.५.०९ ।।

 दुर्गाच्चानवरोध-क्षमं अपनयेत् । प्रत्यादेयं अरि-विषयं वा प्रेषयेत् ।। १२.५.१० ।।

 जन-पदं चएकस्थं शैल-वन-नदी-दुर्गेष्वटवी-व्यवहितेषु वा पुत्र-भ्रातृ-परिगृहीतं स्थापयेत् ।। १२.५.११ ।।

 उपरोध-हेतवो दण्ड-उपनत-वृत्ते व्याख्याताः ।। १२.५.१२ ।।

 तृण-काष्ठं आ-योजनाद्दाहयेत् ।। १२.५.१३ ।।

 उदकानि च दूषयेत् । अवस्रावयेच्च ।। १२.५.१४ ।।

 कूप-कूट-अवपात-कण्टकिनीश्च बहिरुब्जयेत् ।। १२.५.१५ ।।

 सुरुङ्गां अमित्र-स्थाने बहु-मुखीं कृत्वा निचय-मुख्यानभिहारयेत् । अमित्रं वा ।। १२.५.१६ ।।

 पर-प्रयुक्तायां वा सुरुङ्गायां परिखां उदक-अन्तिकीं खानयेत् । कूप-शालां अनुसालं वा ।। १२.५.१७ ।।

 तोय-कुम्भान्कांस्य-भाण्डानि वा शङ्का-स्थानेषु स्थापयेत्खात-अभिज्ञान-अर्थं ।। १२.५.१८ ।।

 ज्ञाते सुरुङ्गा-पथे प्रतिसुरुङ्गां कारयेत् ।। १२.५.१९ ।।

 मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत् ।। १२.५.२० ।।

 प्रतिविहित-दुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमां अस्य दिशं गच्छेत् । यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः । यतो वा गतोअस्य मित्रैर्वियोगं कुर्यात्पार्ष्णिं वा गृह्णीयात्राज्यं वाअस्य हारयेत्वीवध-आसार-प्रसारान्वा वारयेत् । यतो वा शक्नुयादाक्षिकवदपक्षेपेणास्य प्रहर्तुम् । यतो वा स्वं राज्यं त्रायेत मूलस्यौपचयं वा कुर्यात् ।। १२.५.२१ ।।

 यतः संधिं अभिप्रेतं लभेत ततो वा गच्छेत् ।। १२.५.२२ ।।

 सह-प्रस्थायिनो वाअस्य प्रेषयेयुः "अयं ते शत्रुरस्माकं हस्त-गतः । पण्यं विप्रकारं वाअपदिश्य हिरण्यं अन्तः-सार-बलं च प्रेषय यस्यएनं अर्पयेम बद्धं प्रवासितं वा" इति ।। १२.५.२३ ।।

 प्रतिपन्ने हिरण्यं सार-बलं चऽददीत ।। १२.५.२४ ।।

 अन्त-पालो वा दुर्ग-सम्प्रदाने बल-एक-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२५ ।।

 जन-पदं एकस्थं वा घातयितुं अमित्र-अनीकं आवाहयेत् ।। १२.५.२६ ।।

 तदवरुद्ध-देशं अतिनीय विश्वस्तं घातयेत् ।। १२.५.२७ ।।

 मित्र-व्यञ्जनो वा बाह्यस्य प्रेषयेत्"क्षीणं अस्मिन्दुर्गे धान्यं स्नेहाः क्षारो लवणं वा । तदमुष्मिन्देशे काले च प्रवेक्ष्यति । तदुपगृहाण" इति ।। १२.५.२८ ।।

 ततो रस-विद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्य-अमित्र-आटविकाः प्रवेशयेयुः । अन्ये वाअभित्यक्ताः ।। १२.५.२९ ।।

 तेन सर्व-भाण्ड-वीवध-ग्रहणं व्याख्यातं ।। १२.५.३० ।।

 संधिं वा कृत्वा हिरण्य-एक-देशं अस्मै दद्यात् । विलम्बमानः शेषं ।। १२.५.३१ ।।

 ततो रक्षा-विधानान्यवस्रावयेत् ।। १२.५.३२ ।।

 अग्नि-रस-शस्त्रैर्वा प्रहरेत् ।। १२.५.३३ ।।

 हिरण्य-प्रतिग्राहिणो वाअस्य वल्लभाननुगृह्णीयात् ।। १२.५.३४ ।।

 परिक्षीणो वाअस्मै दुर्गं दत्त्वा निर्गच्छेत् ।। १२.५.३५ ।।

 सुरुङ्गया कुक्षि-प्रदरेण वा प्राकार-भेदेन निर्गच्छेत् ।। १२.५.३६ ।।

 रात्राववस्कन्दं दत्त्वा सिद्धस्तिष्ठेत् । असिद्धः पार्श्वेनापगच्छेत् ।। १२.५.३७ ।।

 पाषण्डच्-छद्मना मन्द-परिवारो निर्गच्छेत् ।। १२.५.३८ ।।

 प्रेत-व्यञ्जनो वा गूढैर्निह्रियेत ।। १२.५.३९ ।।

 स्त्री-वेष-धारी वा प्रेतं अनुगच्छेत् ।। १२.५.४० ।।

 दैवत-उपहार-श्राद्ध-प्रहवणेषु वा रस-विद्धं अन्न-पानं अवसृज्य ।। १२.५.४१ ।।

 कृत-उपजापो दूष्य-व्यञ्जनैर्निष्पत्य गूढ-सैन्योअभिहन्यात् ।। १२.५.४२ ।।

 एवं गृहीत-दुर्गो वा प्राश्य-प्राशं चैत्यं उपस्थाप्य दैवत-प्रतिमाच्-छिद्रं प्रविश्यऽसीत । गूढ-भित्तिं वा । दैवत-प्रतिमा-युक्तं वा भूमि-गृहं ।। १२.५.४३ ।।

 विस्मृते सुरुङ्गया रात्रौ राज-आवासं अनुप्रविश्य सुप्तं अमित्रं हन्यात् ।। १२.५.४४ ।।

 यन्त्र-विश्लेषणं वा विश्लेष्याधस्तादवपातयेत् ।। १२.५.४५ ।।

 रस-अग्नि-योगेनावलिप्तं गृहं जतु-गृहं वाअधिशयानं अमित्रं आदीपयेत् ।। १२.५.४६ ।।

 प्रमद-वन-विहाराणां अन्यतमे वा विहार-स्थाने प्रमत्तं भूमि-गृह-सुरुङ्गा-गूढ-भित्ति-प्रविष्टास्तीक्ष्णा हन्युः । गूढ-प्रणिहिता वा रसेन ।। १२.५.४७ ।।

 स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्प-रस-अग्नि-धूमानुपरि मुञ्चेयुः ।। १२.५.४८ ।।

 प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेअन्तः-पुर-गते गूढ-संचारः प्रयुञ्जीत ।। १२.५.४९ ।।

 ततो गूढं एवापगच्छेत् । स्वजन-संज्ञां च प्ररूपयेत् ।। १२.५.५० ।।

 द्वाह्स्थान्वर्षधरांश्चान्यान्निगूढ-उपहितान्परे । ।। १२.४.५१अ ब ।।

तूर्य-संज्ञाभिराहूय द्विषत्-शेषाणि घातयेत् ।। १२.४.५१च्द् ।।