अर्थशास्त्रम्/अधिकरणम् १२/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः । ग्रामेसु गृहपतिक-व्यञ्जनाः । जन-पद-संधिषु गो-रक्षक-तापस-व्यञ्जनाः । ते सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां पण्य-आगार-पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ।। १२.४.०१ ।।

 आगतांश्चएषां दुर्गे गूढ-पुरुषानर्थ-मानाभ्यां अभिसत्कृत्य प्रकृतिच्-छिद्राणि प्रदर्शयेयुः ।। १२.४.०२ ।।

 तेषु तैः सह प्रहरेयुः ।। १२.४.०३ ।।

 स्कन्ध-आवारे वाअस्य शौण्डिक-व्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाअवस्कन्द-काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ।। १२.४.०४ ।।

 शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकं अहः । उत्तरं रस्-सिद्धं प्रयच्छेत् ।। १२.४.०५ ।।

 शुद्धं वा मद्यं दण्ड-मुख्येभ्यः प्रदाय मद-काले रस-सिद्धं प्रयच्छेत् ।। १२.४.०६ ।।

 दण्ड-मुख्य-व्यञ्जनो वा पुत्रं अभित्यक्तं इति समानं ।। १२.४.०७ ।।

 पाक्व-मांसिक-औदनिक-औण्डिक-आपूपिक-व्यञ्जना वा पण्य-विशेषं अवघोषयित्वा परस्पर-संघर्षेण कालिकं समर्घतरं इति वा परानाहूय रसेन स्व-पण्यान्यपचारयेयुः ।। १२.४.०८ ।।

 सुरा-क्षीर-दधि-सर्पिस्-तैलानि वा तद्-व्यवहर्तृ-हस्तेषु गृहीता स्त्रियो बालाश्च रस-युक्तेषु स्व-भाजनेषु परिकिरेयुः ।। १२.४.०९ ।।

 "अनेनार्घेण । विशिष्टं वा भूयो दीयताम्" इति तत्रएवावाकिरेयुः ।। १२.४.१० ।।

 एतान्येव वैदेहक-व्यञ्जनाः । पण्य-विरेयेणऽहर्तारो वा ।। १२.४.११ ।।

 हस्त्य्-अश्वानां विधा-यवसेषु रसं आसन्ना दद्युः ।। १२.४.१२ ।।

 कर्म-कर-व्यञ्जना वा रस-अक्तं यवसं उदकं वा विक्रीणीरन् ।। १२.४.१३ ।।

 चिर-संसृष्टा वा गो-वाणिजका गवां अज-अवीनां वा यूथान्यवस्कन्द-कालेषु परेषां मोह-स्थानेषु प्रमुञ्चेयुः । अश्व-खर-उष्ट्रमहिष-आदीनां दुष्टांश्च ।। १२.४.१४ ।।

 तद्-व्यञ्जना वा चुच्छुन्दरी-शोणित-अक्त-अक्षान् ।। १२.४.१५ ।।

 लुब्धक-व्यञ्जना वा व्याल-मृगान्पञ्जरेभ्यः प्रमुञ्चेयुः । सर्प-ग्राहा वा सर्पानुग्र-विषान् । हस्ति-जीविनो वा हस्तिनः ।। १२.४.१६ ।।

 अग्नि-जीविनो वाअग्निं अवसृजेयुः ।। १२.४.१७ ।।

 गूढ-पुरुषा वा विमुखान्पत्त्य्-अश्व-रथ-द्विप-मुख्यानभिहन्युः । आदीपयेयुर्वा मुख्य-आवासान् ।। १२.४.१८ ।।

 दूष्य-अमित्र-आटविक-व्यञ्जनाः प्रणिहिताः पृष्ठ-अभिघातं अवस्कन्द-प्रतिग्रहं वा कुर्युः ।। १२.४.१९ ।।

 वन-गूढा वा प्रत्यन्त-स्कन्धं उपनिष्कृष्याभिहन्युः । एक-अयने वीवध-आसार-प्रसारान्वा ।। १२.४.२० ।।

 ससंकेतं वा रात्रि-युद्धे भूरि-तूर्यं आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो । लब्धं राज्यम्" इति ।। १२.४.२१ ।।

 राज-आवासं अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ।। १२.४.२२ ।।

 सर्वतो वा प्रयातं एन(?एव?) म्लेच्छ-आटविक-दण्ट-चारिणः सत्त्र-अपाश्रयाः स्तम्भ-वाट-अपाश्रया वा हन्युः ।। १२.४.२३ ।।

 लुब्धक-व्यञ्जना वाअवस्कन्द-संकुलेषु गूढ-युद्ध-हेतुभिरभिहन्युः ।। १२.४.२४ ।।

 एक-अयने वा शैल-स्तम्भ-वाट-खञ्जन-अन्तर्-उदके वा स्व-भूमि-बलेनाभिहन्युः ।। १२.४.२५ ।।

 नदी-सरस्-तटाक-सेतु-बन्ध-भेद-वेगेन वा प्लावयेयुः ।। १२.४.२६ ।।

 धान्वन-वन-दुर्ग-निम्न-दुर्गस्थं वा योग-अग्नि-धूमाभ्यां नाशयेयुः ।। १२.४.२७ ।।

 संकट-गतं अग्निना । धान्वन-गतं धूमेन । निधान-गतं रसेन । तोय-अवगाढं दुष्ट-ग्राहैरुदक-चरणैर्वा तीक्ष्णाः साधयेयुः । आदीप्त-आवासान्निष्पतन्तं वा ।। १२.४.२८ ।।

 योग-वामन-योगाभ्यां योगेनान्यतमेन वा । ।। १२.४.२९अ ब ।।

 अमित्रं अतिसंदध्यात्सक्तं उक्तासु भूमिषु ।। १२.४.२९च्द् ।।