बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५६ (जीवान्तर्दशाफलाध्यायः)
दिखावट
(अध्यायः ५६ (जीवान्तर्दशाफलाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५५ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५७ → |
अथ जीवान्तर्दशाफलाध्यायः ||५६|| स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे | अनेकराजधीशो वा सम्पन्नो राजपूजितः ||१|| मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् | नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ||२|| गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः | ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ||३|| स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् | नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ||४|| नीचसङ्गो महादुःखं दायादजनविग्रहः | कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ||५|| पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् | सप्तमाधिपदोषेण देववाधा भविष्यति ||६|| तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् | रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ||७|| जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे | लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ||८|| राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् | धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ||९|| वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् | पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ||१०|| नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः | पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ||११|| अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु | लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ||१२|| धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः | स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ||१३|| गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् | गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ||१४|| दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा | भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ||१५|| गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा | दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||१६|| धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् | उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ||१७|| द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति | तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||१८|| कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् | मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ||१९|| जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ||२०|| अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् | महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||२१|| वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् | महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ||२२|| व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् | दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ||२३|| स्वदेशे धनलाभश्च पितृमातृसुखावहा | गजवाजिसमायुक्तो राजमित्रप्रसादतः ||२४|| दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते | शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ||२५|| विदेशगमनं चैव मार्गे चौरभयं तथा | व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ||२६|| लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते | अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ||२७|| चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च | अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ||२८|| शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः | आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ||२९|| अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते | द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ||३०|| तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् | आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ||३१|| जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते | अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ||३२|| परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च | दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||३३|| राजकोपो धनच्छेदो बन्धनं रोगपीडनम् | बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ||३४|| दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा | नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ||३५|| महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् | व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ||३६|| यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् | द्वितीयद्यूननाथे तु देहवाधा भविष्यति ||३७|| छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् | सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ||३८|| जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते | लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ||३९|| नरवाहनयोगश्च गजाश्वाम्बरसंयुतः | महारजप्रसादेन लाभाधिक्यं महत्सुखम् | नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ||४०|| पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् | कल्याणं च महाप्रीतिः पितृमातृसुखावहा ||४१|| देवतागुरुभक्तिश्च अन्नदानं महत्तथा | तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ||४२|| षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च | कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ||४३|| मन्दारराहुसंयुक्ते कलहो राजतो भयम् | स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ||४४|| सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः | दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ||४५|| धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ||४६|| वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् | गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ||४७|| दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् | द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ||४८|| अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः | तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ||४९|| श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये | शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ||५०|| जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा | केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ||५१|| धने वा बलसंयुते दायेशाद्वा तथैव च | तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ||५२|| वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः | मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ||५३|| लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च | शिरोरोगादिपीडा च ज्वरपीडा तथैव च ||५४|| सत्कर्मसु तदा हीनः पापकर्मचयस्तथा | सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ||५५|| अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ | द्वितीयद्यूननाथे तु देहपीडा भविष्यति ||५६|| तद्दोषपरिहारार्थमादित्यहृदयं जपेत् | सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ||५७|| जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे | स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ||५८|| दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् | दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ||५९|| सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा | महाराजप्रसादेन सर्वसौख्यं धनागमः ||६०|| अनेकजनसौख्यं च दानधर्मादिसंग्रहः | षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ||६१|| दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते | मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ||६२|| नृपचौरादिपीडा च दायादजनविग्रहः | मातुलादिवियोगश्च मातृपीडा तथैव च ||६३|| द्वितीयषष्ठयोरीशे देहपीडा भविष्यति | तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ||६४|| जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||६५|| विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् | जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ||६६|| दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा | शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ||६७|| मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् | स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ||६८|| दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा | पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ||६९|| नानरोगभयं दुःखं नेत्ररोगादिसम्भवः | पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ||७०|| द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः | वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ||७१|| जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा | मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ||७२|| शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् | भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ||७३|| देशग्रामाधिकं च यवनप्रभुदर्शनम् | गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ||७४|| दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः | सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ||७५|| दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते | चौराहिव्रणभीतिश्च राजवैषम्यमेव च ||७६|| गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् | सोदरेण विरोधः स्याद्दायादजनविग्रहः ||७७|| गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् | अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ||७८|| द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् | तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ||७९|| छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् | देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ||८०|| -