बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५७ (शन्यन्तर्दशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ५६ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५८ →


 
 अथ शन्यन्तर्दशाफलाध्यायः ||५७||

मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा |
केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ||१||

राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् |
वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ||२||

महाराजप्रसादेन सेनापत्यादिलाभकृत् |
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ||३||

तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते |
तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ||४||

रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् |
मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ||५||

अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||६||

तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् |
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||७||

मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा |
सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ||८||

स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् |
यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ||९||

देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् |
सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ||१०||

वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् |
अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ||११||

षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति |
रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ||१२||

नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता |
फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ||१३||

नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् |
द्वितीयसप्तमाधिशे देहबाधा भविष्यति ||१४||

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् |
अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||१५||

मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते |
स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ||१६||

केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् |
दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ||१७||

स्वप्रभोश्च महाकष्टं विदेशगमनं तथा |
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ||१८||

गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् |
दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ||१९||

समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः |
तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ||२०||

अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् |
शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ||२१||

दारपुत्रवियोगश्च संसारे भवति ध्रुवम् |
द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ||२२||

छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् |
केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ||२३||

मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा |
केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ||२४||

दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः |
गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ||२५||

महाराजप्रसादेन हीष्टसिद्धिः सुखावहा |
स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ||२६||

द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा |
गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ||२७||

शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् |
शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ||२८||

दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः |
दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ||२९||

दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते |
राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ||३०||

दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् |
सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ||३१||

दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः |
दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ||३२||

नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः |
कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ||३३||

जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः |
राजद्वारे जनद्वेषः सोधरेण विरोधनम् ||३४||

द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति |
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३५||

श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३६||

मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा |
भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ||३७||

शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् |
गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ||३८||

वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् |
लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ||३९||

हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा |
इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ||४०||

तापज्वरादिपीडा च व्याकुलत्वं भयं तथा |
आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ||४१||

द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ||४२||

मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते |
स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ||४३||

पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः |
महाराजप्रसादेन वाहनाम्बरभूषणम् ||४४||

सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् |
पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ||४५||

क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे |
क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ||४६||

जातकस्य महत्कष्टं राजकोपो धनक्षयः |
पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ||४७||

व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः |
अकाले भोजनं चैव मौषधस्य च भक्षणम् ||४८||

फलमेतद्विजानीयादादौ सौख्यं धनागमः |
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ||४९||

वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा |
पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ||५०||

मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् |
दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ||५१||

शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् |
शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ||५२||

द्वितीयद्यूननाथे तु देहालस्य भविष्यति |
तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ||५३||

गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि |
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||५४||

मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे |
तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ||५५||

लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः |
राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ||५६||

सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः |
नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ||५७||

नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते |
पापदृष्टियुते वापि धनहानिर्भविष्यति ||५८||

चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् |
भ्रातृपित्रादिपीडा च दायादजनविग्रहः ||५९||

चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् |
विदेशगमनं चैव नानमार्गे धनव्ययः ||६०||

अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि |
अपमृत्युभयं चैव नानाकष्टं पराभवः ||६१||

तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् |
वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ||६२||

मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा |
देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ||६३||

अर्थव्ययो राजभयं स्वजनादिविरोधिता |
विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ||६४||

लग्नाधिपेन संयुक्ते योगकारकसंयुते |
स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ||६५||

आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् |
देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ||६६||

चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् |
मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ||६७||

मेषे कन्यागते वापि कुलीरे वृषभे तथा |
मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ||६८||

राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् |
द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ||६९||

मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् |
वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ||७०||

मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे |
लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७१||

सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् |
महाराजप्रसादेन धनवाहनभूषणम् ||७२||

सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् |
देवतागुरुभक्तिश्च विद्वज्जनसमागमः ||७३||

दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् |
षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ||७४||

निजसम्बन्धिमरणं धनधान्यविनाशनम् |
राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ||७५||

विदेशगमनं चैव कुष्ठरोगादिसम्भवः |
दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ||७६||

विभवं दारसौभाग्यं राजश्रीधनसम्पदः |
भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ||७७||

ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा |
अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ||७८||

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते |
बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ||७९||

कुभोजनं कर्महानी राजदण्डाद्धनव्यय |
कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ||८०||

द्वितीयद्यूननाथे तु देहवाधा मनोरुजः |
आत्मसम्बन्धमरणं भविष्यति न संशयः ||८१||

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ||८२||

-