अथर्ववेदः/काण्डं ९/सूक्तम् १०

विकिस्रोतः तः
← सूक्तं ९.०९ अथर्ववेदः - काण्डं ९
सूक्तं ९.१०
ब्रह्मा
सूक्तं ९.११ →
दे. अतिथिः, विद्या। १ साम्नी उष्णिक्, - - - -

तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ।
बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ।
मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥
तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ।
विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥
अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति ।
उप हरति प्रति हरत्युच्छिष्टं निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९}