अथर्ववेदः/काण्डं ९/सूक्तम् ०९

विकिस्रोतः तः
← सूक्तं ९.०८ अथर्ववेदः - काण्डं ९
सूक्तं ९.०९
ब्रह्मा
सूक्तं ९.१० →
दे. अतिथिः, विद्या। १-४ प्राजापत्यानुष्टुप्

स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥
स य एवं विद्वान् मधूपसिच्योपहरति ।
यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥
स य एवं विद्वान् मांसमुपसिच्योपहरति ।
यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥
स य एवं विद्वान् उदकमुपसिच्योपहरति ।
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८}