अथर्ववेदः/काण्डं ७/सूक्तम् १०४

विकिस्रोतः तः
← सूक्तं ७.१०३ अथर्ववेदः - काण्डं ७
सूक्तं ७.१०४(७.९९)
अथर्वा।
सूक्तं ७.१०५ →
दे. वेदी। भुरिक् त्रिष्टुप्।

परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् ।
होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥