अथर्ववेदः/काण्डं ७/सूक्तम् १०३

विकिस्रोतः तः
← सूक्तं ७.१०२ अथर्ववेदः - काण्डं ७
सूक्तं ७.१०३(७.९८)
अथर्वा।
सूक्तं ७.१०४ →
दे. इन्द्रः, विश्वे देवाः। विराट् त्रिष्टुप्।

सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः ।
सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गच्छतु हविः स्वाहा ॥१॥