अथर्ववेदः/काण्डं ७/सूक्तम् ०९५

विकिस्रोतः तः
← सूक्तं ७.०९४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९५(७.९०)
अङ्गिराः।
सूक्तं ७.०९६ →
दे. मन्त्रोक्ताः। १ गायत्री, २ विराट् पुरस्ताद् बृहती, ३ त्र्यवसाना षट्पदा भुरिग्जगती।

अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् ।
ओजो दासस्य दम्भय ॥१॥
वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै ।
म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥
यथा शेपो अपायातै स्त्रीषु चासदनावयाः ।
अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः ।
यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥