अथर्ववेदः/काण्डं ७/सूक्तम् ०९४

विकिस्रोतः तः
← सूक्तं ७.०९३ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९४(७.८९)
सिन्धुद्वीपः।
सूक्तं ७.०९५ →
दे. अग्निः। अनुष्टुप्, ४ त्रिपदा निचृत्-परोष्णिक्।

अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥
इदमापः प्र वहतावद्यं च मलं च यत्।
यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥
एधोऽस्येधिषीय समिदसि समेधिषीय ।
तेजोऽसि तेजो मयि धेहि ॥४॥