अथर्ववेदः/काण्डं ७/सूक्तम् ०७८

विकिस्रोतः तः
← सूक्तं ७.०७७ अथर्ववेदः - काण्डं ७
सूक्तं ७.०७८(७.७४)
अथर्वाङिराः
सूक्तं ७.०७९ →
दे. मन्त्रोक्ताः, ४ जातवेदाः। अनुष्टुप्

अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥
विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् ।
इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥
त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् ।
अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥
व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।
तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥