अथर्ववेदः/काण्डं ७/सूक्तम् ०६०

विकिस्रोतः तः
← सूक्तं ७.०५९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०६०(७.५८)
ऋषिः - कौरुपथिः।
सूक्तं ७.०६१ →
दे. इन्द्रावरुणौ। जगती, २ त्रिष्टुप्।

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।
युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥
इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥