अथर्ववेदः/काण्डं ७/सूक्तम् ०५९

विकिस्रोतः तः
← सूक्तं ७.०५८ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५९(७.५७)
ऋषिः - वामदेवः।
सूक्तं ७.०६० →
दे. सरस्वती। जगती।

यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।
यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।
उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥