अथर्ववेदः/काण्डं ७/सूक्तम् ०५१
दिखावट
← सूक्तं ७.०५० | अथर्ववेदः - काण्डं ७ सूक्तं ७.०५१(७.०४९) ऋषिः - अथर्वा। |
सूक्तं ७.०५२ → |
दे. देवपत्नीः। १ आर्षी जगती, २ चतुष्पदा पङ्क्तिः। |
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥१॥
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥