अथर्ववेदः/काण्डं ७/सूक्तम् ०५०

विकिस्रोतः तः
← सूक्तं ७.०४९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५०(७.०४८)
ऋषिः - अथर्वा।
सूक्तं ७.०५१ →
दे. राका। जगती।

राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥