अथर्ववेदः/काण्डं ७/सूक्तम् ०२३

विकिस्रोतः तः
← सूक्तं ७.०२२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२३(७.०२२)
ब्रह्मा।
सूक्तं ७.०२४ →
दे. ब्रध्नः। द्विपदा एकावसाना विराड्गायत्री, २ त्रिपदा अनुष्टुप्।


अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥
ब्रध्नः समीचीरुषसः समैरयन् ।
अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥