अथर्ववेदः/काण्डं ७/सूक्तम् ०२२

विकिस्रोतः तः
← सूक्तं ७.०२१ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२२(७.०२१)
ब्रह्मा।
सूक्तं ७.०२३ →
दे. आत्मा। शक्वरी विराड्गर्भा जगती।


समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् ।
स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥१॥