अथर्ववेदः/काण्डं ७/सूक्तम् ०१०

विकिस्रोतः तः
← सूक्तं ७.००९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१० (७.०९)
उपरिबभ्रवः
सूक्तं ७.०११ →
दे. पूषा। त्रिष्टुप्, ३ त्रिपदा आर्षी गायत्री, ४ अनुष्टुप्।

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्।
स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् ॥२॥
पूषन् तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस्त इह स्मसि ॥३॥
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥