अथर्ववेदः/काण्डं ७/सूक्तम् ००४

विकिस्रोतः तः
← सूक्तं ७.००३ अथर्ववेदः - काण्डं ७
सूक्तं ७.००४
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००५ →
दे. वायुः। त्रिष्टुप्

एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च ।
तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥