अथर्ववेदः/काण्डं ७/सूक्तम् ००४
दिखावट
← सूक्तं ७.००३ | अथर्ववेदः - काण्डं ७ सूक्तं ७.००४ अथर्वा (ब्रह्मवर्चसकामः) |
सूक्तं ७.००५ → |
दे. वायुः। त्रिष्टुप् |
एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च ।
तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥