अथर्ववेदः/काण्डं ७/सूक्तम् ००२

विकिस्रोतः तः
← सूक्तं ७.००१ अथर्ववेदः - काण्डं ७
सूक्तं ७.००२
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००३ →
दे. आत्मा। त्रिष्टुप्

अथर्वाणं पितरं इत्यष्टर्चेन(अ ७.२-५) सर्वफलकामः अथर्वाणं यजत उपतिष्ठते वा (कौ.सू. ५९.१८)

अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् ।
य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥