अथर्ववेदः/काण्डं ६/सूक्तम् १४१

विकिस्रोतः तः
← सूक्तं ६.१४० अथर्ववेदः - काण्डं ६
सूक्तं ६.१४१
विश्वामित्रः।
सूक्तं ६.१४२ →
दे. अश्विनौ। अनुष्टुप्।

वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।
अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
यथा चक्रुर्देवासुरा यथा मनुष्या उत ।
एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥