अथर्ववेदः/काण्डं ६/सूक्तम् १४०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ६.१३९ अथर्ववेदः - काण्डं ६
सूक्तं ६.१४०
अथर्वा
सूक्तं ६.१४१ →
दे. ब्रह्मणस्पतिः, दन्ताः।(अनुष्टुप् ?), १ उरोबृहती, २ उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्, ३ आस्तारपङ्क्तिः।


यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च ।
तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।
एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।
अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥