अथर्ववेदः/काण्डं ६/सूक्तम् १३२

विकिस्रोतः तः
← सूक्तं ६.१३१ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३२
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.१३३ →
दे. स्मरः। अनुष्टुप्, १ त्रिपदा अनुष्टुप्, २, ४, ५ बृहती, ३ भुरिक्।

यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
तं ते तपामि वरुणस्य धर्मणा ॥१॥
यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
तं ते तपामि वरुणस्य धर्मणा ॥२॥
यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।
तं ते तपामि वरुणस्य धर्मणा ॥३॥
यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
तं ते तपामि वरुणस्य धर्मणा ॥४॥
यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
तं ते तपामि वरुणस्य धर्मणा ॥५॥