अथर्ववेदः/काण्डं ६/सूक्तम् १३३

विकिस्रोतः तः
← सूक्तं ६.१३२ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३३
ऋषिः - अगस्त्यः
सूक्तं ६.१३४ →
दे. मेखला। १ भुरिक्, २,५ अनुष्टुप्, ३ त्रिष्टुप्, ४ जगती
श्रोणी मेखला

य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।
यस्य देवस्य प्रशिषा चरामः स पारमिच्छात्स उ नो वि मुञ्चात्॥१॥
आहुतास्यभिहुत ऋषीणामस्यायुधम् ।
पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।
तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।
सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।
सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥

सायणभाष्यम्

'य इमां देवो मेखलाम्' इति पञ्चर्चेन अभिचारकर्मणि दीक्षायां मेखलां संपात्य अभिमन्त्र्य बध्नीयात् ।
अत्र ‘आहुतासि’ (२) इत्यनया तत्रैव कर्मणि मेखलाया ग्रन्थिमालिम्पेत् ।
'मृत्योरहम्' (३) इत्यनया बाधकीः' समिध आदध्यात् ( तु. कौसू ४७,१३) ।
उपनयनकर्मणि 'श्रद्धाया दुहिता' इति द्वाभ्यां मेखलां बध्नीयात् । सूत्रितं हि " 'श्रद्धाया दुहिता' इति द्वाभ्यां (४,५) मौजीं मेखलां बध्नाति " ( कौसू ५७, १ ) इति।
‘अयं वज्रः' ( अ ६,१३४ ) इति तृचेन अभिचारकर्मणि दीक्षायां दण्डं अभिमन्त्र्य गृह्णीयात् ।
तत्रैव कर्मणि अनेन तृचेन अन्नमभिमन्त्र्य कर्ता भुञ्जीत ।

य इ॒मां दे॒वो मेख॑लामाब॒बन्ध॒ यः सं॑न॒नाह॒ य उ॑ नो यु॒योज॑।
यस्य॑ दे॒वस्य॑ प्र॒शिषा॒ चरा॑मः॒ स पा॒रमि॑छा॒त्स उ॑ नो॒ वि मु॑ञ्चात् ।।१।।

यः । इ॒माम् । दे॒वः । मेखलाम् । आ॒ऽब॒बन्ध॑ । यः । स॒म्ऽन॒नाह । यः । ऊं॒ इति॑ । नः॒ यु॒योज॑ ।
यस्य॑ । दे॒वस्य॑ । प्र॒ऽशिषा॑ । चरा॑मः । सः । पा॒रम् । इ॒च्छा॒त् । सः । ऊं॒ इति नः॒ । वि । मुञ्चात् ॥ १ ॥

यो देवः शत्रुहननकुशलः इमां मेखलां स्वशत्रुवधार्थम् आबबन्ध पुरा आबद्धवान् । तथा यो देवः संननाह इदानीमपि अन्येषां मेखलां संनह्यति । यश्च न अस्मान् युयोज अभिचारकर्मणि मेखलया योजयति । तथा वयं यस्य देवस्य प्रशिषा प्रशासनेन चरामः वर्तामहे स सर्वान्तर्यामी देवः पारं प्रारिप्सितस्य कर्मणः समाप्तिम् इच्छात् इच्छतु । इच्छतेर्लेटि आडागमः । स उ स एव नः अस्मान् वि मुञ्चात् शत्रुभ्यो विमुञ्चतु । शत्रुं निहत्य अस्मान् कृतार्थान् करोत्वित्यर्थः ।


आहु॑तास्य॒भिहु॑त॒ ऋषी॑णाम॒स्यायु॑धम्।
पूर्वा॑ व्र॒तस्य॑ प्राश्न॒ती वी॑र॒घ्नी भ॑व मेखले ।।२।।

आऽहु॑ता । असि॒ । अ॒भिऽहु॑ता । ऋषी॑णाम् । अ॒सि॒ । आयु॑धम् ।
पूर्वा । व्र॒तस्य॑ । प्र॒ऽअश्न॒ती । वीर॒ऽघ्नी । भ॒व॒ । मे॒ख॒ले॒ ॥ २ ॥

हे मेखले त्वम् आहुता आहुतिभिः संस्कृता असि । अभिहुता संपाताभिहुता च। सा ऋषीणाम् अतीन्द्रियार्थदर्शिनां विश्वामित्रादीनाम् आयुधम् शत्रुहननसाधनम् असि। व्रतस्य कर्मणः प्रारिप्सितस्य पूर्वा प्रथमभाविनी प्राश्नती प्रानुवाना प्राप्नुवती। यद्वा व्रतस्येति कर्मणि षष्ठी । व्रतं क्षीरादिकं प्राश्नती प्रथमं पिबन्ती । वीरघ्नी वीराः शत्रवः तेषां हन्त्री भव ।

 
मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑।
तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ।।३।।

मृ॒त्योः । अ॒हम् । ब्र॒ह्म॒ऽचारी । यत् । अस्म । निः॒ऽयाच॑न् । भू॒तात् । पुरु॑षम् । य॒माय॑ ।
तम् । अ॒हम् । ब्रह्म॑णा । तप॑सा । श्रमे॑ण । अ॒नया॑ । ए॒न॒म् । मेखलया । सि॒ना॒मि॒ ॥ ३ ॥

मृत्योः वैवस्वतस्य अहं कर्मकरो भवामि । यत् यस्माद् ब्रह्मचारी अस्मि ब्र ह्मचर्यधर्मेण दीक्षादिनियमेन तपोविशेषेण युक्तो भवामि । तस्मात् मत्कृतेन अभिचारकर्मणा नियमविशेषेण च शत्रुवधः अवश्यंभावीति मृत्योरेव अहं सहाय- भूतो भवामीत्यर्थः । अतो हेतोः भूतात् भूतग्रामात् पुरुषम् शत्रुं यमाय यमार्थं निर्याचम् निःशेषेण याचे प्रार्थये । तं मारयितव्यम् एनं शत्रुं ब्रह्मणा मन्त्रेण तपसा अनशनादिरूपेण मत्कृतेन श्रमेण शरीरदण्डेन च अनया आबध्यमानया मेखलया अहं सिनामि बध्नामि । अनेन मेखलाबन्धनेन शत्रुमेव निरुद्धगतिं बध्नामीत्यर्थः । षिञ् बन्धने ।


श्र॒द्धाया॑ दुहि॒ता तप॒सो ऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑।
सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ।।४।।

श्र॒द्धाया॑ः । दु॒हि॒ता । तप॑सः' । अधि॑ । जा॒ता । स्वसा॑ । ऋषी॑णाम् । भू॒त॒ऽकृता॑म् । ब॒भूव॑ ।
सा । न॒: । मे॒ख॒ले॒ । म॒तिम् । आ । धे॒हि॒ । मे॒धाम् । अथो॒ इति॑ । नः॑ । धे॒हि॒ । तप॑ः । इ॒न्द्रि॒यम् । च॒ ॥

श्रद्धाया दुहिता । श्रुतिस्मृत्युदितकर्मसु आस्तिक्यबुद्धिः श्रद्धा । तस्या दुहिता पुत्री तपसोऽधि जाता सृष्ट्यादौ ब्रह्मणस्तपस उत्पन्ना । अधिशब्दः पञ्चम्यर्थानुवादी । उपर्यर्थो वा । भूतकृताम् भूतग्रामस्य कर्तॄणाम् ऋषीणाम् मरीच्यत्रिप्रभृतीनां स्वसा भगिनी येयं मेखला इत्थं बभूव हे मेखले सा तादृशी त्वं नः मतिम् आगामिगोचरां बुद्धिम् आ धेहि आभिमुख्येन कुरु । तथा मेधाम् श्रुतधारणसमर्थां बुद्धिम् आ धेहि । अथो अपि च तपः नियमविशेषम् इन्द्रियम् इन्द्रस्यात्मनो लिङ्गं वीर्यं च नः अस्माकं धेहि विधेहि ।


यां त्वा॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यः परिबेधि॒रे।
सा त्वं परि॑ ष्वजस्व॒ मां दी॑र्घायु॒त्वाय॑ मेखले ।।५।।

याम् । त्वा॒ । पूर्वे । भू॒त॒ऽकृ॒त॑ः । ऋष॑यः । प॒रि॒ऽबे॒धि॒रे ।
सा । त्वम् । परि॑ । स्व॒ज॒स्व॒ । माम् । दी॒र्घा॒युऽत्वाय॑ । मे॒ख॒ले॒ ॥ ५ ॥

हे मेखले यां त्वा त्वां भूतकृतः पृथिव्यादिभूतग्रामस्य कर्तारः पूर्वे पूर्वभाविन ऋषयः परिबेधिरे परिबद्धवन्तः सा तादृशी त्वं मां परि ष्वजस्व आलिङ्ग । ष्वञ्ज परिष्वङ्गे । किमर्थम् । दीर्घायुत्वाय आयुषो दैर्घ्याय । अभिचारदोषपरिहारेण चिरकालजीवनायेत्यर्थः ।

[सम्पाद्यताम्]