अथर्ववेदः/काण्डं ६/सूक्तम् १०७

विकिस्रोतः तः
← सूक्तं ६.१०६ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०७
ऋषिः -शन्तातिः।
सूक्तं ६.१०८ →
दे. विश्वजित्। अनुष्टुप्।

विश्वजित्त्रायमाणायै मा परि देहि ।
त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम् ॥१॥
त्रायमाणे विश्वजिते मा परि देहि ।
विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥
विश्वजित्कल्याण्यै मा परि देहि ।
कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम् ॥३॥
कल्याणि सर्वविदे मा परि देहि ।
सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाद् यच्च नः स्वम् ॥४॥