अथर्ववेदः/काण्डं ६/सूक्तम् १०६
दिखावट
← सूक्तं ६.१०५ | अथर्ववेदः - काण्डं ६ सूक्तं ६.१०६ प्रमोचनः |
सूक्तं ६.१०७ → |
दे. दूर्वाशाला। अनुष्टुप्
दूर्वाशाला |
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥