अथर्ववेदः/काण्डं ६/सूक्तम् ०९६

विकिस्रोतः तः
← सूक्तं ६.०९५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९६
ऋषिः - भृग्वङ्गिराः
सूक्तं ६.०९७ →
दे. वनस्पतिः, ३ सोमः।

या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।
सोमस्तानि स्वधया नः पुनातु ॥३॥