अथर्ववेदः/काण्डं ६/सूक्तम् ०९५

विकिस्रोतः तः
← सूक्तं ६.०९४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९५
ऋषिः - भृग्वङ्गिराः
सूक्तं ६.०९६ →
दे. वनस्पतिः।

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥
गर्भो अस्योषधीनां गर्भो हिमवतामुत ।
गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥