अथर्ववेदः/काण्डं ६/सूक्तम् ०६९

विकिस्रोतः तः
← सूक्तं ६.०६८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६९
ऋषिः - अथर्वा।
सूक्तं ६.०७० →
दे. बृहस्पतिः, अश्विनौ। अनुष्टुप्।

गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।
सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।
तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥