अथर्ववेदः/काण्डं ६/सूक्तम् ०६९
दिखावट
← सूक्तं ६.०६८ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०६९ ऋषिः - अथर्वा। |
सूक्तं ६.०७० → |
दे. बृहस्पतिः, अश्विनौ। अनुष्टुप्। |
गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।
सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।
तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥