अथर्ववेदः/काण्डं ६/सूक्तम् ०४४

विकिस्रोतः तः
← सूक्तं ६.०४३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४४
विश्वामित्रः।
सूक्तं ६.०४५ →
दे. वनस्पतिः। अनुष्टुप् , ३ त्रिपदा महाबृहती।

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
शतं या भेषजानि ते सहस्रं संगतानि च ।
श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।
विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥