सामग्री पर जाएँ

अथर्ववेदः/काण्डं ६/सूक्तम् ०४३

विकिस्रोतः तः
← सूक्तं ६.०४२ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४३
भृग्वङ्गिराः (परस्परं चित्तैकीकरणकामः)
सूक्तं ६.०४४ →
दे. मन्युशमनम्। अनुष्टुप्

सर्वविषयमन्युविनाशार्थं अनेन तृचेन दर्भमूलम् ओषधिवत् खात्वा संपात्य अभिमन्त्र्य बध्नीयात् (कौ.सू. ३६.३२

6.43
अयं दर्भो विमन्युकः स्वाय चारणाय च ।
मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
अयं यो भूरिमूलः समुद्रमवतिष्ठति ।
दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
यथावशो न वादिषो मम चित्तमुपायसि ॥३॥