अथर्ववेदः/काण्डं ६/सूक्तम् ०३७

विकिस्रोतः तः
← सूक्तं ६.०३६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३७
ऋषिः - अथर्वा (स्वस्त्ययनकामः)
सूक्तं ६.०३८ →
दे. चन्द्रमाः। अनुष्टुप्

उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् ।
शप्तारमन्विच्छन् मम वृक इवाविमतो गृहम् ॥१॥
परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् ।
शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥
यो नः शपादशपतः शपतो यश्च नः शपात्।
शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥