अथर्ववेदः/काण्डं ६/सूक्तम् ०२९

विकिस्रोतः तः
← सूक्तं ६.०२८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२९
ऋषिः - भृगुः।
सूक्तं ६.०३० →
दे. यमः, निर्ऋतिः। (बृहती) १-२ विराण्नाम गायत्री, ३ त्र्यवसाना सप्तपदा विराडष्टिः।

अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्।
यद्वा कपोत पदमग्नौ कृणोति ॥१॥
यौ ते दूतौ निर्ऋत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः ।
कपोतोलूकाभ्यामपदं तदस्तु ॥२॥
अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्।
पराङेव परा वद पराचीमनु संवतम् ।
यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥

सायणभाष्यम्

'अमून् हेतिः' इति तृचस्य पूर्वसूक्तेन सह उक्तो विनियोगः । सूत्रं च तत्रैवोदाहृतम् ।

‘देवा इमम्' (अ ६,३०,१) इत्यृचा पौनसिरसवे मन्थाभिमर्शनादीनि कर्माणि कुर्यात् । सूत्रितं हि - देवा इमं मधुना संयुतं यवम् इति पौनसिलं मधुमन्थं सहिरण्यं संपातवन्तम् ( कौसू ६६, १५ ) इति ।

‘यस्ते मदः’ (अ ६,३०,२-३ ) इति द्वाभ्याम् ऋग्भ्यां शमीलवनपापलक्षणशान्त्यर्थं शमी- वल्शेन शिरस्युद्वापयेत् । सूत्रितं हि - 'यस्ते मदः' इति शमीलूनपापलक्षणयोः शमीशमके- नाभ्युद्य वापयति । अधिशिर: (कौसू ३१, १,२ ) इति ।

'आयं गौः' इति तृचेन पृश्निसवे गोरभिमर्शनसंपातादीनि कर्माणि कुर्यात् । 'आयं गौः पृश्निः' (अ ६,३१), 'अयं सहस्रम् ' ( अ ७,२३ ) इति पृश्निं गाम् ( कौसू ६६,१४ ) इति कौशिकसूत्रात् ।

तथा आधाने आहितस्य आहवनीयाग्नेः अनेन तृचेन उपस्थानं कुर्यात् । “आहितम् आहवनीयम् 'आयं गौः' इत्युपतिष्ठते" (वैताश्रौ ६, ३) इति हि वैतानं सूत्रम् । द्वादशाहे अविवाक्येऽहनि मानसस्तोत्रम् अनेन तृचेन अनुमन्त्रयेत । " आयं गौः' इति चानुमन्त्रयते' (वैताश्रौ ३३,२८) इति वैतानं सूत्रम् ।

अ॒मून् । हे॒तिः । प॒त॒त्रिणी॑ । नि । ए॒तु । यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । वा॒ । क॒पोत॑ः । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ॥ १ ॥

अमून् दूरे दृश्यमानान् अस्मदीयान् शत्रून् पतत्रिणी पक्ष्यात्मिका हेतिः नि एतु नितरां गच्छतु । उलूकः घूको यत् अशोभनं वदति एतद् मोघम् निर्वीर्यं भवतु । वाशब्दः अध्यर्थे । कपोतः कपोताख्यः पक्षी अशुभसूचनाय यत् पदम् अग्नौ पचनाग्निसमीपे कृणोति करोति । तदपि निर्वीर्यं भवत्वित्यर्थः ।

यौ । ते । दू॒तौ । निः॒ऽऋ॒ते॒ । इ॒दम् । आ॒ऽइ॒तः । अप्रऽहितौ । प्रऽहि॑तौ । वा॒ । गृ॒हम् । न॒ः । क॒पो॒त॒ऽउ॒लूकाभ्या॑म् । अप॑दम् । तत् । अ॒स्तु ॥ २ ॥

हे निर्ऋते पापदेवते ते त्वदीयौ कपोतोलूकात्मकौ यौ दूतौ अप्रहितौ त्वया अप्रेषितौ प्रहितौ वा प्रेषितौ वा नः अस्माकम् इदं गृहम् एतौ आगतौ तद् गृहं ताभ्यां कपोतोलूकाभ्याम् अपदम् अनाश्रयभूतम् अस्तु भवतु ।

अ॒वै॒र॒ऽह॒त्याय॑ । इ॒दम् । आ । प॒प॒त्या॒त् । सुऽवी॒रता॑यै । इ॒दम् । आ । स॒स॒द्या॒त् । परा॑ङ् । ए॒व । परा॑ । व॒द॒ । परा॑चीम् । अनु॑ । स॒म्ऽवत॑म् । यथा॑ । य॒मस्य॑ । त्वा॒ । गृ॒हे । अ॒र॒सम् । प्र॒ति॒ऽचाक॑शान् । आ॒भूक॑म् । प्र॒ति॒ऽचाक॑शान् ॥३॥

इदं कपोतोलूकजनितं दुर्निमित्तम् अवीरहत्यायै अवीरहननाय अस्मदीयानां वीराणाम् अहिंसनाय आ पपद्यात् आपद्यताम् । अवकल्पताम् इत्यर्थः । तथा अस्माकं सुवीरतायै शोभनवीरसद्भावाय इदं दुर्निमित्तं परामेव परावतम् । परावत् इति दूरनाम । अत्यन्तदूरदेशम् परा वीम् पराङ्मुखम् अपरावृत्तं संवतम् संप्राप्तम् अनुलक्ष्य आ ससद्यात् आसीदतु प्राप्नोतु । हे कपोतात्मक दूत यमस्य स्वामिनो गृहे त्वा त्वां यथा येन प्रकारेण अरसम् निःसारं प्रतिचाकशान् प्रतिपश्येयुः तत्रत्या जनाः तथा आभूकम् आगतवन्तमेव केवलं त्वां प्रतिचाकशान् प्रतिपश्येयुः ।