अथर्ववेदः/काण्डं ६/सूक्तम् ०२१

विकिस्रोतः तः
← सूक्तं ६.०२० अथर्ववेदः - काण्डं ६
सूक्तं ६.०२१
ऋषिः - शन्तातिः
सूक्तं ६.०२२ →
दे. चन्द्रमाः। अनुष्टुप्।

इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।
तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।
सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
रेवतीरनाधृषः सिषासवः सिषासथ ।
उत स्थ केशदृंहणीरथो ह केशवर्धनीः ॥३॥