अथर्ववेदः/काण्डं ६/सूक्तम् ०२०

विकिस्रोतः तः
← सूक्तं ६.०१९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२०
ऋषिः - भृग्वङ्गिराः।
सूक्तं ६.०२१ →
दे. यक्ष्मनाशनम्। १ अतिजगती, ....... ।

अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति ।
अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥१॥
नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते ।
नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥
अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि ।
तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥