अथर्ववेदः/काण्डं ६/सूक्तम् ०१७

विकिस्रोतः तः
← सूक्तं ६.०१६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०१७
ऋषिः - अथर्वा।
सूक्तं ६.०१८ →
दे. गर्भदृंहणम्, पृथिवी। अनुष्टुप्।

यथेयं पृथिवी मही भूतानां गर्भमादधे ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥
यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥
यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥
यथेयं पृथिवी मही दाधार विष्ठितं जगत्।
एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥