अथर्ववेदः/काण्डं ६/सूक्तम् ०१६

विकिस्रोतः तः
← सूक्तं ६.०१५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०१६
ऋषिः - शौनकः।
सूक्तं ६.०१७ →
दे. चन्द्रमाः, मन्त्रोक्तदेवताः। अनुष्टुप्, ........

आबयो अनाबयो रसस्त उग्र आबयो ।
आ ते करम्भमद्मसि ॥१॥
विहह्लो नाम ते पिता मदावती नाम ते माता ।
स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥
तौविलिकेऽवेलयावायमैलब ऐलयीत्।
बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥
अलसालासि पूर्व सिलाञ्जालास्युत्तरा ।
नीलागलसाल ॥४॥