अथर्ववेदः/काण्डं ५/सूक्तम् ०२

विकिस्रोतः तः
← सूक्तं ५.०१ अथर्ववेदः - काण्डं ५
सूक्तं ५.२
बृहद्दिवोऽथर्वा
सूक्तं ५.०३ →
दे. वरुणः

हस्तिपृष्ठे पुरुषशिरसि वा निहितायाम् आश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये अग्निं प्रज्वाल्य आज्यं जुह्वत् शत्रून् अभिक्रामति ।(कौ.सू. १५.१-६)। तथा तेष्वेव कर्मसु आभ्यां सूक्ताभ्यां त्रिषु उदुम्बरचमसेषु प्लक्षचमसेषु वा मैश्रधान्यं प्रक्षिप्य रसांश संपात्य अभिमन्त्र्य अश्नीयात् (कौ.सू. २२.१-५)

तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥
ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥
यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥
नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥
स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥
इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥
एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥