अथर्ववेदः/काण्डं ४/सूक्तम् ३६
← सूक्तं ४.३५ | अथर्ववेदः - काण्डं ४ सूक्तं ४.३६ चातनः। |
सूक्तं ४.३७ → |
दे. सत्यौजा अग्निः। अनुष्टुप्, ९ भुरिक्. |
तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥
यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।
वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥
य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।
क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥
सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम् ॥४॥
ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।
नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥
तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।
श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥
यं ग्राममाविशत इदमुग्रं सहो मम ।
पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥
ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥
अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या ।
मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥