अथर्ववेदः/काण्डं ४/सूक्तम् ३५
← सूक्तं ४.३४ | अथर्ववेदः - काण्डं ४ सूक्तं ४.३५ प्रजापतिः। |
सूक्तं ४.३६ → |
दे. अतिमृत्युः। त्रिष्टुप्, ३ भुरिग्जगती। |
यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्।
यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥
येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।
यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥
यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।
यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥
यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।
अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥
यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।
ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥
यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।
यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥
अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।
ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
सायणभाष्यम्
'यम् ओदनम्' इति सूक्तम् अतिमृत्युसवे निरुप्तहविरभिमर्शनादिषु विनियुक्तम् । सूत्रितं हि – ‘यम् ओदनम्' इत्यतिमृत्युम् ” ( कौसू ६६,११) इति । तथा गोर्यमलजननलक्षणाद्भुतशान्तौ अनेन सूक्तेन गोरभ्युक्षणं होमं च कुर्यात् । सूत्रितं हि-“अथ यत्रैतद् यमसूः 'यम् ओदनम्' इति तां शान्त्युदकेन अभ्युक्ष्य दोहयित्वा। तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा” ( कौसू १०९,१;२ ) इत्यादि। .
यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणे ऽप॑चत्।
यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।१।।
यम् । ओदनम् । प्रथमऽजाः । ऋतस्य । प्रजापतिः । तपसा । ब्रह्मणे । अपचत् ।
यः।लोकानाम्। विऽधृतिः । न । अभिऽरेषात् । तेन । ओदनेन । अतितराणि । मृत्युम् ॥ १॥
ऋतस्य परब्रह्मणः प्रथमजाः तत्सकाशात् प्रथमम् उत्पन्नो हिरण्यगर्भाख्यः प्रजापतिः तपसा दीक्षादिनियमेन यम् ओदनं ब्रह्मणे स्वकारणभूताय देवाय अपचत् । यश्च ओदनो लोकानाम् पृथिव्यादीनां विधृतिः विधारयिता 'एका मुख्या नाभिः शरीरस्य नाभिरिव लोकानां बन्धकः । 'नहो भश्च' (पाउ ४,१२६) इति इञ् प्रत्ययः । तेनौदनेन दीयमानेन मृत्युम् मरणं तद्धेतुभूतं वा देवम् अतितराणि अतिक्रामामि ।
येनात॑रन्भूत॒कृतो ऽति॑ मृ॒त्युं यम॒न्ववि॑न्द॒न्तप॑सा॒ श्रमे॑ण।
यं प॒पाच॑ ब्र॒ह्मणे॒ ब्रह्म॒ पूर्वं॒ तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।२।।
येन । अतरन् । भूतऽकृतः । अति । मृत्युम् । यम् । अनुऽअविन्दन् । तपसा । श्रमेण ।
यम् । पपाच । ब्रह्मणे । ब्रह्म । पूर्वम् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥ २॥
भूतकृतः भूतानां प्राणिनां कर्तारो देवाः येन ओदनेन मृत्युम् अत्यतरन् अतिक्रान्तवन्तः । यम् ओदनं तपसा उपवासादिनियमेन श्रमेण शरीरक्लेशेन च अन्वविन्दन् अन्वलभन्त । तथा पूर्वम् प्रथमोत्पन्नं हिरण्यगर्भाख्यं ब्रह्म ब्रह्मणे स्वकारणभूताय यम् ओदनं पपाच। तद्देवत्यं पक्त्वा ब्राह्मणेभ्यः प्रादाद् इत्यर्थः। तेनौदनेनेत्यादि गतम्।
यो दा॒धार॑ पृथि॒वीं वि॒श्वभो॑जसं॒ यो अ॒न्तरि॑क्ष॒मापृ॑णा॒द्रसे॑न।
यो अस्त॑भ्ना॒द्दिव॑मू॒र्ध्वो म॑हि॒म्ना ते॑नौद॒नेनाति॑ तराणि मृ॒त्युम् ।।३।।
यः । दाधार । पृथिवीम् । विश्वऽभोजसम् । यः । अन्तरिक्षम् । आऽअपृणात् । रसेन ।
यः । अस्तभ्नात् । दिवम् । ऊर्ध्वः । महिम्ना । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३॥
य ओदनो विश्वभोजसम् विश्वस्य कृत्स्नस्य प्राणिजातस्य भोग्यभूतां पृथिवीम् भूमिं दाधार धृतवान् । विश्वं भुनक्ति पालयतीति विश्वभोजाः । भुज पालनाभ्यवहारयोः । अस्माद् असुन्प्रत्ययः । तथा य ओदनः आहुत्यात्मना परिणतेन स्वकीयेन रसेन अन्तरिक्षम् दिवम् आपृणात् आपूरयति । पॄ पालनपूरणयोः । प्वादित्वात् ह्रस्वः । तथा य ओदनः महिम्ना महत्त्वेन दिवम् द्युलोकम् ऊर्ध्वः अस्तभ्नात् । यथाऽधो न पतति तथा ऊर्ध्वः सन् धृतवान् इत्यर्थः । एवं विराडात्मना तस्य स्तुतिः । तेनौदनेनेत्यादि गतम्।
यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः।
अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।४।।
यस्मात् । मासाः । निःऽमिताः। त्रिंशत्ऽअराः। सम्ऽवत्सरः । यस्मात् । निःऽमितः। द्वादशऽअरः।
अहोरात्राः । यम् । परिऽयन्तः। न। 'आपुः । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥४॥
यस्माद् ब्रह्मात्मकाद् ओदनाद् मासा द्वादश निर्मिता उत्पन्नाः त्रिंशदराः । रथचक्रावयवाः कीलका अराः । चक्रवद् आवर्तमानत्वाद् मासास्तथा अनेन रूप्यन्ते। त्रिंशत्संख्याकानि दिनानि अरा येषां ते तथोक्ताः । अपि च द्वादशारः द्वादशमासात्मकः संवत्सरो यस्मात् ब्रह्मात्मकाद् ओदनाद् निर्मितः उत्पादितः । अहानि च रात्रयश्च अहोरात्राः । 'अहःसर्वैकदेश' (पा ५,४,८७) इति समासान्तः अच्प्रत्ययः । ते च पर्यन्तः पर्यावर्तमानाः यं ब्रह्मात्मकम् ओदनं नापुः न प्रापुः। तेनौदनेन इत्योदनस्य माससंवत्सराहोरात्रातिवर्तित्वेन स्तुतिः।
यः प्रा॑ण॒दः प्रा॑ण॒दवा॑न्ब॒भूव॒ यस्मै॑ लो॒का घृ॒तव॑न्तः॒ क्षर॑न्ति।
ज्योति॑ष्मतीः प्र॒दिशो॒ यस्य॒ सर्वा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।५।।
यः । प्राणदः । प्राणदऽवान् । बभूव । यस्मै । लोकाः । घृतऽवन्तः । क्षरन्ति ।
ज्योतिष्मतीः । प्रऽदिशः । यस्य । सर्वाः । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥५॥
यः ओदनः प्राणदवाम् प्राणैर्जिगमिषुभिर्दूयन्ते परिताप्यन्ते इति प्राणद्वः मुमूर्षवः। तेषां प्राणदः प्राणप्रदो बभूव भवति । प्राणदवाम् इति । दूङ् परितापे । अस्मात् प्राणशब्दोपपदात् क्विप् । अकारोपजनश्छान्दसः । यस्मै ब्रह्मात्मकाय ओदनाय सर्वे लोकाः घृतवन्तः घृतधारायुक्ताः क्षरन्ति स्रवन्ति । यस्य ओदनस्य तेजसा सर्वाः प्रदिशः प्रकृष्टाः प्राच्याद्या ज्योतिष्मतीः प्रशस्ततेजस्का भवन्ति । तेनौदनेनेत्यादि गतम् ।
यस्मा॑त्प॒क्वाद॒मृतं॑ संब॒भूव॒ यो गा॑य॒त्र्या अधि॑पतिर्ब॒भूव॑।
यस्मि॒न्वेदा॒ निहि॑ता वि॒श्वरू॑पा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ।।६।।
यस्मात् । पक्वात् । अमृतम् । सम्ऽबभूव । यः । गायत्र्याः । अधिऽपतिः । बभूव ।
यस्मिन् । वेदाः । निऽहिताः । विश्वऽरूपाः । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥६॥
पक्वात् पाकोत्पन्नाद् यस्माद् ओदनाद् अमृतम् द्युलोकस्थं संबभूव उत्पन्नम् । यश्च गायत्र्याः छन्दसाम् अग्रिमाया अधिपतिः अधिदेवता बभूव भवति । यस्मिन् ओदने वेदाः ऋग्यजुःसामाद्याः विश्वरूपाः शाखाभेदेन आसादितवैश्वरूप्या निहिताः निक्षिप्ताः । अन्तरवस्थिता इत्यर्थः। पक्वात् इति । 'पचो वः' (पा ८,२,५२) इति निष्ठातकारस्य वत्वम् । गतमन्यत् ।
अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मे ऽप॑ ते भवन्तु।
ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ।।७।।
अव । बाधे । द्विषन्तम् । देवऽपीयुम् । सऽपत्नाः । ये । मे । अप । ते । भवन्तु ।
ब्रह्मऽओदनम् । विश्वऽजितम् । पचामि । शृण्वन्तु । मे । श्रत्ऽदानस्य । दे॒वाः ॥ ७ ॥
द्विषन्तम् हिंसन्तं शत्रुम् अहम् अव बाधे अपहन्मि । तथा देवपीयून् । पीयतिर्वधकर्मा । ‘पीयति त्वो अनु त्वो गृणाति' (ऋ १,१४७,२) इति हि निगमः । देवानां हिंसकान् अपहन्मि । अतो मे मम ये सपत्नाः शत्रवः ते अप अपहता भवन्तु । तदर्थम् अहं विश्वजितम् सर्वस्य जेतारं ब्रह्मौदनम् ब्राह्मणेभ्यो देय ओदनो ब्रह्मौदनः । तं पचामि संस्करोमि । श्रद्दधानस्य श्रद्धायुक्तस्य मे मम वाक्यं देवा यष्टव्याः शृण्वन्तु आकर्णयन्तु।
इति पञ्चमं सूक्तम् ।
इति सप्तमोऽनुवाकः।
टिप्पणी