अथर्ववेदः/काण्डं ३/सूक्तम् ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ३.०४ अथर्ववेदः - काण्डं ३
सूक्तं ३.५
अथर्वा
सूक्तं ३.०६ →
दे. सोमः। १ पुरोनुष्टुप्त्रिष्टुप्, ......

आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।
ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।
अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।
तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।
तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।
यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।
उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।
उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।
संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥


सायणभाष्यम्

"आयमगन् पर्णमणिः' इत्यनेन सूक्तेन तेजोबलायुर्धनादिपुष्टये पलाशवृक्षमणिं वासितं कृत्वा संपात्य अभिमन्त्र्य बध्नीयात् । तथा च सूत्रम्-- 'आयमगन्' (अ ३,५), 'अयं प्रतिसरः' (अ ८,५), 'अयं मे वरणः' ( अ १०,३ ), 'अरातीयोः' ( अ १०,६) इति मन्त्रोक्तान् वासितान् बध्नाति' ( कौसू १९,२२ ) इति । उक्तो वासितशब्दार्थः ।

तथा 'आङ्गिरसीं संपत्कामस्य ( शाक १७,२ ) इति विहितायां महाशान्तौ पलाशमणिबन्धनेपि एतत् सूक्तम् । उक्तं शान्तिकल्पे -- 'आयमगन्' इति मन्त्रोक्तम् आङ्गिरस्याम्' ( शाक १९,३ ) इति ।


आयम॑गन्पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।

ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒न्त्वप्र॑यावन् ।।१।।

आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।

ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥

आ। अयम् । अगन् । पर्णऽमणिः । बली । बलेन । प्रऽमृणन् । सऽपत्नान् ।

ओजः । देवानाम् । पयः । ओषधीनाम् । वर्चसा । मा । जिन्वतु । अप्रऽयावन् ॥ १॥

अयम् अस्मदादिभिः संपदर्थं ध्रियमाणः पर्णमणिः । पर्णः पलाशवृक्षः सोमपर्णोद्भूतत्वात् 'सोयं पर्णः सोमपर्णाद्धि जातः' (तैब्रा १,२,१,६ ) इति श्रुतेः । आगन् आगच्छतु । किंविधः । बली अतिशयितबलवान् । अभिमतफलं दातुं समर्थ इत्यर्थः। अत एव बलेन स्वकीयेन सामर्थ्यातिशयेन सपत्नान् शत्रून् प्रमृणन् प्रकर्षेण हिंसन् । आगच्छतु इति संबन्धः । पुनस्तमेव विशिनष्टि -- देवानाम् इन्द्रादीनाम् ओजः बलरूपः तथा ओषधीनाम् सर्वासां पयः सारभूतः । ओषधिसारसोमजन्यत्वात् । एवंलक्षणः पर्णमणिः अप्रयावन् अप्रयावा मां विहाय अनपगन्ता सन् मा मां वर्चसा तेजसा जिन्वतु प्रीणयतु । तेजस्विनं करोतु इत्यर्थः। हिवि दिवि धिवि जिवि प्रीणनार्थाः। इदित्त्वाद् नुम्। अप्रयावन्निति । यातेर्वनिप् । सुपां सुलुक” (पा ७,१,३९) इति सोर्लुक् नलोपाभावश्छान्दसः। यद्वा हे अप्रयावन् अप्रयातः सर्वदा धार्यमाण । 'न ङिसंबुद्ध्योः' (पा ८,२,८ ) इति नलोपाभावः । हे मणे मा मां तेजसा जिन्वतु । पुरुषव्यत्ययः । जिन्वेत्यर्थः।


मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद्र॒यिम्।

अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ।।२।।

मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।

अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥

मयि । क्षत्रम् । पर्णऽमणे । मयि । धारयतात् । रयिम् ।

अहम् । राष्ट्रस्य । अभिऽवर्गे । निऽजः । भूयासम् । उत्ऽतमः ॥ २ ॥

हे पर्णमणे पलाशनिर्मितमणे क्षत्रम् । बलनामैतत् । बलं क्षत्रियजातिं वा मयि मणिधारके धारयतात् धारय स्थापय । तथा रयिम् धनं च मयि धारयतात् । धारयतेर्हे स्तातङ् आदेशः। अहं च त्वद्धारणाद् राष्ट्रस्य राज्यस्य अभीवर्गे आवर्जने स्वाधीनीकरणे निजः अनन्यसहायः उत्तमः उत्कृष्टतमो भूयासम् । स्वबाहुबलेनैव सर्वं राष्ट्रं वशीकृत्य सर्वश्रेष्ठो भवानीत्यर्थः। अभीवर्गे इति । अभिपूर्वाद् वृजेर्भावे घञ् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा ६,३,१२२ ) इति दीर्घः । उत्तम इति । 'उत्तमशश्वत्तमौ सर्वत्र' (पाग ६,१, १६० ) इति उञ्छादिषु पाठाद् अन्तोदात्तः।


यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।

तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ।।३।।

यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।

तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥

यम् । निऽदधुः । वनस्पतौ । गुह्यम् । देवाः । प्रियम् । मणिम् ।

तम् । अस्मभ्यम् । सह । आयुषा । देवाः । ददतु । भर्तवे ॥ ३ ॥

देवाः इन्द्राद्या यम् अभीष्टफलदत्वेन प्रसिद्धम् अत एव प्रियम् प्रियंकरं गुह्यम् गोपनीयं मणिं वनस्पतौ पलाशवृक्षे निदधुः निहितवन्तः । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् । 'उभे वनस्पत्यादिषु युगपत्' (पा ६,२,१४० ) इत्युभयपदप्रकृतिस्वरत्वम । गुह्यम् इति । गुहू संवरणे इत्यस्मात 'शंसिगुहिदुहिभ्यो वेति वक्तव्यम्' ( पावा ३.१.१०९ ) इति क्यप् । तम् तथाविधं मणिम् अस्मभ्यं भर्तवे भरणाय । तुमर्थ तवेन् प्रत्ययः । आयुषा सह देवाः ददतु प्रयच्छन्तु । डुदाञ् दाने इत्यस्मात् 'अदभ्यस्तात्' (पा ७,१,४ ) इति झस्य अदादेशः।


सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः।

तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।।४।।

सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।

तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥

सोमस्य । पर्णः । सहः । उग्रम् । आ । अगन् । इन्द्रेण । दत्तः । वरुणेन । शिष्टः ।

तन् । प्रियासम् । बहु । रोचमानः । दीर्घायुऽत्वाय । शतऽशारदाय ॥ ४ ॥

सोमस्य द्युलोकस्थायाः सोमलतायाः पर्णः आहरणसमये भूमौ पतित उद्भूतः। श्रूयते हि--तृतीयस्याम् इतो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णम् अच्छिद्यत । तत् पर्णोऽभवत् । तत् पर्णस्य पर्णत्वम्' (तै ३,५,७,१) इति । उग्रम् उद्गूर्णं प्रभूतं सहः पराभिभवनक्षमं बलम् उक्तलक्षणबलरूपः एवंलक्षणो मणिः आगन् माम् आगच्छतु । कथंभूतः। इन्द्रेण देवेन दत्तः वरुणेन शिष्टः अनुशिष्टः अनुज्ञातः। तम् उक्तलक्षणं पर्णमणिम् बहु बहुविधं रोचमानः रोचमानम् । द्वितीयायाः सुपां सुलुक्” (पा ७,१,३९) इति सुः । मणिं प्रियासम् भ्रियासं धारयेयम् । किमर्थम् । शतशारदाय शतसंवत्सरपरिमिताय दीर्घायुत्वाय चिरकालजीवनाय । दीर्घायुत्वायेति पदम् 'दीर्घायुत्वाय बृहते रणाय' ( अ २,४,१) इत्यत्र व्याख्यातम् । शरदेव शारदम् । प्रज्ञादेराकृतिगणत्वात् स्वार्थिकः अण् । यद्वा शरदः ऋतोः संबन्धी शारदः संवत्सरः। 'तस्येदम्' (पा ४,३,१२० ) इति अण् । उभयत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ।


आ मा॑रुक्षत्पर्णम॒णिर्म॒ह्या अ॑रिष्ट॒तात॑ये।

यथा॒हमु॑त्त॒रो ऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ।।५।।

आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।

यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥

आ । मा। अरुक्षत् । पर्णऽमणिः । मह्यै । अरिष्टऽतातये ।

यथा । अहम् । उत्तरः । असानि । अर्यम्णः । उत । सम्ऽविदः ॥ ५ ॥

अयं पर्णमणिः मह्यै महत्यै अरिष्टतातये। रिष्टं हिंसनम् तदभावः अरिष्टम् । तक्रियायै । 'शिवशमरिष्टस्य करे' (पा ४,४,१४३ ) इति अरिष्टशब्दात् करोत्यर्थे तातिल् प्रत्ययः । 'लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । मा माम् आरुक्षत् आरोहतु मयि चिरं वर्तताम् । रुहेश्छान्दसे लुङि 'शल इगुपधादनिटः क्सः' (पा ३,१,४५) इति क्सप्रत्ययः । अर्यम्णः । अरीन् यमयतीति अर्यमा अधिकबलः पुरुप्रदाता च । अर्यमा अधिकधनः । 'यः खलु वै ददाति सोऽर्यमा' (तै २,३,४,१) इति श्रुतेः । तस्माद् अधिकाद् उत अपि च संविदः समानज्ञानात् । समबलाद् इत्यर्थः। तस्माद् यथा येन प्रकारेण अहम् मणिधारकः उत्तरः उत्कृष्टतरः असानि भवानि । तथा आरुक्षत् इति संबन्धः । अस्तेर्लोटि 'आडुत्तमस्य पिच्च' (पा ३,४,९२) इति आडागमः । अर्यम्ण इति । 'अल्लोपोऽनः' (पा ६,४,१३४ ) इत्यकारलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ।


ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑।

उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ।।६।।

ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।

उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥

ये। धीवानः । रथऽकाराः । कर्माराः । ये । मनीषिणः ।

उपऽस्तीन् । पर्ण । मह्यम् । त्वम् । सर्वान् । कृणु । अभितः । जनान् ॥ ६ ॥

ये धीवानः धीवराः मात्स्यिकाः । दधातेः क्वनिपि 'घुमास्था' (पा ६,४,६६) इत्यादिना ईत्वम् । ये च रथकाराः रथनिर्मातारो जातिविशेषाः । उक्तं हि -- रथकारस्तु माहिष्यात् करण्यां यस्य संभवः' इत्यमरः ( २,१०,४ )। वैश्यायां क्षत्रियाद् 'उत्पन्नो माहिष्यः । शूद्रायां वैश्याद् उत्पन्ना करणी।


ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्य॑श्च॒ ये।

उ॑प॒स्तीन्प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न्कृण्व॒भितो॒ जना॑न् ।।७।।

ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।

उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥

प॒र्णो ऽसि॑ तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑।

सं॑वत्स॒रस्य॒ तेज॑सा॒ तेन॑ बध्नामि त्वा मणे ।।८।।

पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।

संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥