अथर्ववेदः/काण्डं ३/सूक्तम् ०४
← सूक्तं ३.०३ | अथर्ववेदः - काण्डं ३ सूक्तं ३.४ अथर्वा |
सूक्तं ३.०५ → |
दे. इन्द्रः, २ पञ्च प्रदिशः, ३ अग्निः, ४ अश्विनौ, मित्रावरुणौ, विश्वेदेवाः, मरुतः, ५ द्यावापृथिवी। त्रिष्टुप्, १ जगती, ४-५ भुरिक्। |
आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।
सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।
स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।
तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
सायणभाष्यम्
'आ त्वा गन्' इति सूक्तेन स्वराष्ट्रप्रवेशकर्मण्येव 'पूर्वसूक्तोक्तानि कर्माणि कुर्यात् । सूत्रं तु तत्रैवोदाहृतम् ।
अत्र ‘पथ्या रेवतीः' (अ ३,४,७ ) इत्येषा प्रायणीयेष्ट्यां पथ्यास्वस्तियागानुमन्त्रणे विनियुक्ता । दीक्षान्ते प्रायणीयायाम्' इति प्रक्रम्य 'पथ्या रेवतीः', 'वेदः स्वस्तिः' (अ ७,२९,१) इति हि वैतानं सूत्रम् (वैताश्रौ १३,२)।
आ त्वा॑ गन्रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि॒ प्राङ्वि॒शां पति॑रेक॒राट्त्वं वि रा॑ज।
सर्वा॑स्त्वा राजन्प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्यो॑ भवे॒ह ।।१।।
आ । त्वा । गन् । राष्ट्रम् । सह । वर्चसा । उत् । इहि । प्राङ् । विशाम् । पतिः । एकराट् । त्वम् । वि । राज ।
सर्वाः । त्वा । राजन् । प्रऽदिशः । हृयन्तु । उपऽसद्यः । नमस्यः । भव । इह ॥ १ ॥
हे राजन् त्वा त्वां राष्ट्रम् शत्रुभिराक्रान्तं स्वकीयं राज्यम् आ गन् पुनरागमत् । गमेर्लुङि ‘मन्त्रे घस' (पा २,४,८०) इति च्लेर्लुक् । 'मो नो धातोः' (पा ८,२,६४ ) इति नत्वम् । ततस्त्वं वर्चसा बलेन सह उदिहि उदितः प्रख्यातो भव । इणो लोट् । अनन्तरं प्राक् पूर्वं विशाम् प्रजानां सर्वासां पतिः पालकः सन् एकराट् निःसपत्नो मुख्यो राजा भूत्वा त्वं वि राज विशेषेण दीप्यस्व । एकराडिति । एकशब्दोपपदाद् राजतेः 'सत्सूद्विष' (पा ३,२,६१) इति क्विप् । 'व्रश्च” (पा ८,२,३६ ) इत्यादिना षत्वम् । जश्त्वचर्त्वे । हे राजन् त्वा त्वां सर्वाः प्रदिशः प्रकृष्टा दिशः प्राच्याद्याः तदभिमानिन्यो देवताः तत्रस्था जना वा ह्वयन्तु स्वामित्वेन अनुजानन्तु । इह अस्मिन् स्वकीये राष्ट्रे उपसद्यः सर्वैरुपसदनीयः सेव्यः । व्यत्ययेन यत् । नमस्यः नमस्कार्यश्च भव । 'नमोवरिवश्चित्रङः क्यच्' (पा ३,१,१९ ) इति क्यच् । तदन्ताद् 'अचो यत्' (पा ३,१,९७ ) इति कर्मणि यत् । अतोलोपयलोपौ । 'तित् स्वरितम्' (पा ६,१,१८५)। यद्वा नमस्यः नमस्कारार्हः। 'छन्दसि च' (पा ५,१,६७ ) इति यः । छान्दसम् अन्तस्वरितत्वम् ।
त्वां विशो॑ वृणतां रा॒ज्या॑य॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः।
वर्ष्म॑न्रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।।२।।
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
त्वाम् । विशः । वृणताम् । राज्याय । त्वाम् । इमाः । प्रऽदिशः । पञ्च । देवीः ।
वर्ष्मन् । राष्ट्रस्य । ककुदि । श्रयस्व । ततः । नः । उग्रः । वि । भज । वसूनि ॥ २ ॥
हे राजन् त्वां विशः प्रजा राज्याय । राज्ञो भावः कर्म वा राज्यम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा ५,१,१२८ ) इत्यत्र पुरोहितादिषु ‘राजाऽसे' इति पाठाद् यक्' । राजभावाय राजकर्मणे वा वृणताम् संभजताम् । तथा त्वाम् इमाः परिदृश्यमानाः प्रदिशः प्राच्याद्याः पञ्च मध्यदिशा सह पञ्चसंख्याका देवीः देव्यो द्योतमानाः । वृणताम् इति संबन्धः । ततः राष्ट्रस्य वर्ष्मन् वर्ष्मणि शरीरे । सप्तम्या लुक् । 'न ङिसंबुद्धयोः' (पा ८,२,८ ) इति नलोपप्रतिषेधः। स्वपालनीयभूशरीर इत्यर्थः । तत्रापि ककुदि ककुदीवोन्नते स्थाने प्रशस्ते वा सिंहासने श्रयस्व आस्स्व । ततः उपवेशानन्तरम् उग्रः उद्गूर्णबलः शत्रुभिरनभिभाव्यः सन् वसूनि धनानि नः अस्माकं सेवकानां वि भज यथायोग्यं प्रयच्छ । 'द्वयचोऽतस्तिङः' ( पा ६,३,१३५ ) इति सांहितिको दीर्घः।
अछ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै।
जा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ।।३।।
अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
अच्छ । त्वा । यन्तु । हविनः । सऽजाताः । अग्निः । दूतः । अजिरः । सम् । चरातै।
जायाः । पुत्राः । सुऽमनसः । भवन्तु । बहुम् । बलिम् । प्रति । पश्यासै । उग्रः ॥ ३ ॥
हे राजन् त्वा त्वां सजाताः समानजन्मानः अन्ये राजानो हविनः । हवम् आह्वानम् आज्ञारूपम् एषाम् अस्तीति हविनः तादृशाः सन्तः अच्छ इत्याभिमुख्ये यन्तु अभिगच्छन्तु। सर्वे राजानस्त्वदाज्ञावशवर्तिनो भवन्तु इत्यर्थः । तथा अजिरः त्वया प्रेरितः गमनशीलो वा दूतस्त्वदीयो भटः अग्निः । लुप्तोपमम् एतत् । अग्निरिव अप्रधृष्यः सं चरातै संचरतु । संपूर्वाच्चरतेर्लेटि आडागमः । 'वैतोन्यत्र' (पा ३,४,९६ ) इति ऐकारः। अजिर इति । अज गतिक्षेपणयोः इत्यस्मात् 'अजिरशिशिरशिथिल' ( पाउ १,५३ ) इत्यादिना किरजन्तो निपातितः । अपि च जायाः भार्याः पुत्राश्च तदुपलक्षिताः सर्वे बान्धवाः सुमनसः पुनःस्वराष्ट्रप्राप्त्या सौमनस्ययुक्ता भवन्तु। 'सोर्मनसी अलोमोषसी' (पा ६,२,११७ ) इत्युत्तरपदाद्युदात्तत्वम् । उग्रः उद्गूर्णबलस्त्वं बहुम् अधिकं बहुविधं वा बलिम् उपायनं करं वा प्रति पश्यासै प्रतिमुखम् आगतं पश्य । प्रतिपूर्वाद दशेर्लेटि व्यत्ययेन आत्मनेपदम् । आडैत्वे पूर्ववत् ।
अ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे दे॒वा म॒रुत॒स्त्वा ह्व॑यन्तु।
अधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।।४।।
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
अश्विना । त्वा । अग्रे। मित्रावरुणा । उभा । विश्वे । देवाः । मरुतः । त्वा । ह्वयन्तु ।
अध । मनः । वसुऽदेयाय । कृणुष्व । ततः । नः । उग्रः । वि। भज । वसूनि ॥४॥
हे राजन् त्वा त्वाम् अग्रे प्रथमम् अश्विना अश्विनौ देवौ उभा उभौ मित्रावरुणा मित्रावरुणौ च । ह्वयन्तु इति संबन्धः। तथा त्वा त्वां विश्वे देवाः मरुतश्च ह्वयन्तु राज्यप्रवेशं कारयन्तु । अध अथ राज्यप्रवेशानन्तरम् । 'निपातस्य च' (पा ६,३, १३६ ) इति सांहितिको दीर्घः । हे राजन् मनः त्वदीयं वसुदेयाय अर्थिभ्यो धनप्रदानाय कृणुष्व कुरु । कृवि हिंसाकरणयोश्च । व्यत्ययेन आत्मनेपदम् । वसुदेयायेति। 'अचो यत्' (३,१,९७ ) इति भावे यत्। 'ईद्यति' (पा ६,४,६५) इति ईकारान्तादेशः। 'यतोऽनावः' (पा ६,१,२१३) इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । ततो नः इत्यादि व्याख्यातम् ।।
आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्।
तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ।।५।।
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
आ।प्र। द्रव । परमस्याः। पराऽवतः । शिवे इति ।ते। द्यावापृथिवी इति । उभे इति । स्ताम् ।
तत् । अयम् । राजा । वरुणः । तथा । आह । सः । त्वा । अयम् । अह्वत् । सः। उप । इदम् । आ । इहि ॥५॥
हे दूरदेशस्थित राजन् परावतः। दूरनामैतत् । परमस्याः परावतः अत्यन्तदूरदेशात् आ प्र द्रव स्वराष्ट्राभिमुखं शीघ्रम् आगच्छ। परमस्या इति । व्यत्ययेन स्याडागमः । परावत इति । 'उपसर्गाच्छन्दसि धात्वर्थे' (पा ५,१,११८) इति वतिः । अत्र अर्थग्रहणसामर्थ्यात् लिङ्गसंख्यायोगः समर्थितः। स्वराष्ट्रं प्रविशतः ते तव उभे द्यावापृथिवी द्यावापृथिव्यौ शिवे मङ्गलकारिण्यौ स्ताम् भवताम् । अस्तेर्लोटि तसस्ताम् । 'श्नसोरल्लोपः' (पा ६,४,१११) इति अकारलोपः । तत् तस्मिन् त्वदागमनविषये अयं वरुणो राजा तथा यथा प्रागुक्तं तथा तेनैव प्रकारेण आह ब्रूते सोऽयम् उक्तो वरुणस्त्वा त्वाम् आह्वत् आह्वयति । ह्वयतेश्छान्दसे लुङि 'लिपिसिचिह्वश्च' (पा ३,१,५३ ) इति अङ्। 'आतो लोप इटि च' (पा ६,४,७२ ) इति आकारलोपः । स वरुणेनाहूतस्त्वम् इदम् स्वराष्ट्रम् उपैहि उपागच्छ।
इन्द्रे॑न्द्र मनु॒ष्या॑३ः॒ परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः।
स त्वा॒यम॑ह्व॒त्स्वे स॒धस्थे॒ स दे॒वान्य॑क्ष॒त्स उ॑ कल्पय॒द्विशः॑ ।।६।।
इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।
स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
इन्द्रऽइन्द्र । मनुष्याः । परा । इहि । सम् । हि । अज्ञास्थाः। वरुणैः । सम्ऽविदानः।
सः । त्वा । अयम् । अहृत् । स्वे । सधऽस्थे । सः । दे॒वान् । यक्षत् । सः। ऊं इति । कल्पयात्। विशः ॥ ६॥
इन्द्रेन्द्र । आदरार्थं पुनर्वचनम् । हे इन्द्र परमैश्वर्ययुक्त मनुष्याः मनुष्यान् अस्मान् । शसो नत्वाभावश्छान्दसः। यद्वा मनोरपत्यभूताः प्रजाः प्रति परेहि आगच्छ । हि यस्मात् कारणात् हे इन्द्र त्वं वरुणेन संविदानः ऐकमत्यं प्राप्तः। पूजायां बहुवचनम् । सम् अज्ञास्थाः एतदाह्वानविषये समानज्ञानवान् असि । तस्माद् आगच्छेति संबन्धः। ज्ञा अवबोधने। अस्मात् लुङि 'संप्रतिभ्यामनाध्याने' (पा १,३,४६ ) इत्यात्मनेपदम् । सोऽयं वरुणेन ऐकमत्यं प्राप्त इन्द्रः हे राजन् त्वा त्वाम् अह्वत् आह्वयति । ततः स्वराष्ट्रं प्रविशेति शेषः। प्रविश्य च स्वे स्वकीये सधस्थे सहस्थाने स्वराष्ट्रे । सहशब्दोपपदात् तिष्ठतेरधिकरणे कः। 'सध मादस्थयोश्छन्दसि' (पा ६,३,९६ ) इति सहस्य सधादेशः । तत्र वर्तमानः स राजा देवान् इन्द्रादीन् यक्षत् यजतु । यजेर्लेटि अडागमः । 'सिब्बहुलम् लेटि' (पा ३,१,३४ ) इति सिप् । स उ स एव राजा विशः प्रजाः कल्पयात् स्वस्वव्यापारेषु कल्पयतु नियुङ्क्ताम् । कल्पयतेर्लेटि आडागमः।
प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्।
तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ।।७।।
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।
तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
पथ्याः । रेवतीः । बहुऽधा । विऽरूपाः । सर्वाः । सम्ऽगत्य । वरीयः । ते । अक्रन् ।
ताः । त्वा । सर्वाः । सम्ऽविदानाः । ह्वयन्तु । दशमीम् । उग्रः । सुऽमनाः । वश । इह ॥७॥
रेवतीः रैमत्यः धनवत्यः । 'छन्दसीरः' ( पा ८,२,१५) इति मतुपो वत्त्वम् । 'रयेर्मतौ बहुलम्' (पावा ६,१,३४) इति संप्रसारणम् । पूर्वरूपत्वम्। गुणः।रेशब्दान्मतुप उदात्तत्वं वक्तव्यम्' (पावा ६,१,१७३ ) इति मतुप उदात्तत्वम् । 'वा छन्दसि' (पा ६.१,१०६ ) इति पूर्वसवर्णदीर्घः । पथ्याः पथोऽनपेताः मार्गहितकारिण्यः एतत्संज्ञा देवताः। 'धर्मपथ्यर्थन्यायाद् अनपेते' ( पा ४,४.९२ ) इति यत् । यद्वा पथ्याः पथि साधवः। छान्दसो यत। रेवतीः आपः । तदभिमानिन्यो देवताः 'आपो वै रेवतीः' (तैब्रा ३,२,८,२) इति श्रुतेः। ता विशेष्यन्ते--बहुधा बहुप्रकारं वर्तमाना विरूपाः विविधाकाराः एवंविधा याः सन्ति ताः सर्वाः संगत्य संभूय हे राजन् ते तव वरीयः उरुतरं श्रेयः अक्रन् कुर्वन्तु। वरीय इति । उरुशब्दाद् ईयसुनि 'प्रियस्थिर' (पा ६,४,१५७ ) इत्यादिना वरादेशः । अक्रन्निति । करोतेर्लुङि ‘मन्त्रे घस” (पा २,४,८०) इति च्लेर्लुक्। हे राजन् ताः सर्वा देवताः संविदानाः ऐकमत्यं प्राप्ताः सत्यः त्वा ह्वयन्तु त्वां राष्ट्रप्रवेशार्थम् आह्वयन्तु। ताभिराहूतः इह अस्मिन् राष्ट्रे उग्रः उद्गूर्णबलस्त्वं सुमनाः संतुष्टमनाः सन् दशमीम् नवतिसंवत्सरोर्ध्वभाविनीं वर्षदशकात्मिकां चरमावस्थाम् । अत्यन्तसंयोगे द्वितीया। तावत्पर्यन्तं वस निवस । जरापर्यन्तं स्वकीयं राज्यं निष्कण्टकं भुङ्क्ष्वेत्यर्थः।
इति तृतीयकाण्डे प्रथमेनुवाके चतुर्थं सूक्तम् ।।