अथर्ववेदः/काण्डं २/सूक्तम् ३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.२९ अथर्ववेदः - काण्डं २
सूक्तं २.३०
प्रजापतिः
सूक्तं २.३१ →
दे. १ मनः, २ अश्विनौ, ३-४ औषधिः, ५ दम्पती। अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ भुरिक्

यथेदं भूम्या अधि तृणं वातो मथायति ।
एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।
सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।
तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥३॥
यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।
कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
एयमगन् पतिकामा जनिकामोऽहमागमम् ।
अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥


सायणभाष्यम्

'यथेदं भूम्याम्' इति सूक्तेन स्त्रीवशीकरणकर्मणि वृक्षत्वक्शरखण्डतगराञ्जनकुष्ठादिद्रव्याणि पेषयित्वा आज्येन आलोड्य स्त्रिया अङ्गम् अनुलिम्पेत् । 'यथेदं भूम्याम् अधि' ( अ २,३०) 'यथा वृक्षम्' ( अ ६,८) इति प्रक्रम्य सूत्रितम् 'संस्पृष्टयोर्वृक्षलिबुजयोः शकलार्वन्तरेषुतगराञ्जनकुष्ठमदुघरेष्ममथिततृणम् आज्येन संनीय संस्पृशति' ( कौसू ३५,२१ ) इति ।


यथेदं भूम्या अधि तृणं वातो मथायति ।

एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥

या । इदम् । भूम्याः । अधि । तृणम् । वातः । मथायति ।

एव । मथ्नामि । ते। मनः । यथा । माम् । कामिनी । असः । यथा । मत् । न । अपऽगाः । असः ॥ १ ॥

भूम्याम् पृथिव्याम् । अधिः उपर्यर्थः । भूभ्या उपरि इदम् परिदृश्यमानं तृणं वातः वात्यालक्षणो वायुः यथा येन प्रकारेण मथायति मथ्नाति अनवस्थितं कृत्वा भ्रामयति । 'छन्दसि शायजपि' (पा ३,१,८४ ) इत्यत्र 'शायच् छन्दसि सर्वत्र' इति वचनाद् अहावपि श्नः शायजादेशः। शायचश्चित्त्वाद् अन्तोदात्तत्वम् । ‘यावद्यथाभ्याम्' (पा ८,१,३६ ) इति निघातप्रतिषेधः। हे स्त्रि एव एवं ते मनः मथ्नामि आलोडयामि । यथा येन प्रकारेण मां कामयमानं कामिनी काङ्क्षिष्यन्ती असः भवेः। यथा येन प्रकारेण मत् मत्तः सकाशाद् अपगाः अपसृत्य अन्यत्र गन्त्री नासः न भवेः। तथा मथ्नामीति पूर्वत्र संबन्धः । कामिनीति । कमेर्णिङन्ताद् औणादिक इनिप्रत्ययः । तस्य 'भविष्यति गम्यादयः' (पा ३,३,३) इति भविष्यदर्थत्वम् । ततो ङीप् । 'अकेनोर्भविष्यदाधमर्ण्ययोः' (पा २,३,७०) इति कर्मणि षष्ठीप्रतिषेधः । तस्माद् माम् इति' द्वितीया । अपगा इति । 'जनसनखनक्रमगमो विट्' (पा ३,२,६७ ) इति गमेर्विट् प्रत्ययः। ‘विड्वनोरनुनासिकस्यात्' (पा ६,४,४१ ) इति आत्त्वम् ।


सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।

सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥

सम् । च । इत् । नयाथः । अश्विना । कामिना । सम् । च । वक्षथः ।

सम् । वाम् । भगासः । अग्मत । सम् । चित्तानि । सम् । ऊं इति । व्रता ॥ २ ॥

अश्विना हे अश्विनौ कामनाविषयभूतां स्त्रियम् । इत् इत्यवधारणे । सं नयाथः मत्समीपं प्रापयतम् । नयतेर्लेटि आडागमः। 'चवायोगे प्रथमा' (पा ८,१,५९ ) इति प्रथमा तिड्विभक्तिर्न निहन्यते । आनीय च कामिना मया सं वक्षथः संयोजयतम् । वहेर्लेटि अडागमः। 'सिब्बहुलम्” (पा ३,१,३४ ) इति सिप् । परस्परसमुच्चयार्थौ चकारौ। वाम् युवयोर्भगासः भगाः भाग्यानि । 'आज्जसेरसुक्' (पा ७,१,५०)। सम् अग्मत संगच्छन्ताम् । मयेति शेषः। 'समो गम्यृच्छि” (पा १,३,२९ ) इत्यात्मनेपदम् । छान्दसे लुङि च्लेर्लुक् । 'गमहन' (पा ६,४,९८ ) इत्युपधालोपः। तथा चित्तानि ज्ञानानि । समग्मतेत्यनुषङ्गः। एवं व्रता व्रतानि । कर्मनामैतत् । उशब्दः अप्यर्थे । विविधानि कर्माण्यपि समग्मतेति संबन्धः।


यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।

तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥३॥

यत् । सुऽपर्णाः । विवक्षवः । अनमीवाः । विवक्षवः ।

तत्र। मे । गच्छतात् । हवम् । शल्यःऽइव । कुल्मलम् । यथा ॥ ३ ॥

सुपर्णाः शोभनपक्षाः पारावतादयः पक्षिणः यत् स्त्रीविषयं वाक्यं विवक्षवः वक्तुम् इच्छवो भवन्ति अनमीवाः अरोगिणो दृप्ताः कामिजनाश्च यद् विवक्षवो भवन्ति तत्र विषये क्रियमाणं मे मम संबन्धिनं हवम् आह्वानं कुल्मलं यथा कुत्सितमलोपेतं मृदुलं शरीरावयवविशेषमिव सा कामिनी शल्यः बाण इव गच्छतात् प्राप्नोतु । मद्वाक्यं श्रुत्वा मत्परवशा भवतु इत्यर्थः। विवक्षवः । ब्रुवः सनि वच्यादेशे 'सनाशंसभिक्ष उः' (पा ३,२,१६८ ) इति उप्रत्ययः । 'न लोकाव्ययनिष्ठा' (पा २,३,६९) इति षष्ठीप्रतिषेधे यद् इति द्वितीया। सुपर्णाः अनमीवा इत्युभयत्र 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इत्युत्तरपदान्तोदात्तत्वम् । 'यथेति पादान्ते' (फि ४,१७ ) इति यथाशब्दो निहन्यते।


यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।

कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥

यत् । अन्तरम् । तत् । बाह्यम् । यत् । बाह्यम् । तत् । अन्तरम् ।

कन्यानाम् । विश्वऽरूपाणाम् । मनः । गृभाय । ओषधे ॥ ४ ॥

यत् अर्थजातम् अन्तरम् अभ्यन्तरं मनः विषयीकरोति तदेव बाह्यम् बहिष्ठं वाग्विषयो भवति । यद् बाह्यम् उक्तलक्षणं च तत् एव अन्तरं मानसं भवति । अनेन वाङ्मनसयोः परस्परं विसंवादो निरस्तः । बाह्यम् इति । 'बहिषष्टिलोपो यञ् च' ( पावा ४,१,८५ ) इति यञ्प्रत्ययः टिलोपश्च । एवं निर्दुष्टं विश्वरूपाणाम् अनवद्यसंपूर्णावयवानां कन्यानाम् अभुक्तपूर्वाणां मनः हे ओषधे तृणादिरूपे गृभाय गृहाण । त्वदनुलेपनेन तां मदनुरक्तचित्तां कुर्वित्यर्थः । कन्यानाम् इति । 'तिल्यशिक्यमर्त्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' (फि ४,८) इति अन्तस्वरितत्वम् । गृभाय । ग्रहेर्लोटि 'छन्दसि शायजपि' ( पा ३,१,८४ ) इति श्नः शायजादेशः। 'हृग्रहोर्भश्छन्दसि' ( पावा ८,२,३२) इति भत्वम् ।


एयमगन् पतिकामा जनिकामोऽहमागमम् ।

अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥

आ। इयम् । अगन् । पतिऽकामा । जनिऽकामः । अहम् । आ । अगमम् ।

अश्वः । कनिक्रदत् । यथा । भगेन । अहम् । सह । आ । अगमम् ॥ ५॥

इयम् काम्यमाना स्त्री पतिकामा पतिं भर्तारम् अभिलष्यन्ती आगन् मत्समीपम् आगमत् । गमेर्लुङि तिपि च्लेर्लुकि 'मो नो धातोः' (पा ८,२,६४) इति नत्वम् । पतिकामेति । 'शीलिकामिभक्ष्याचरिभ्यो णः' (पावा ३,२,१) इति णप्रत्ययान्तत्वाद् ङीब् न भवति । अहमपि जनिकामः जनिर्जाया तां कामयमानः सन् आगमम् तां प्राप्तवान् अस्मि । किञ्च कनिक्रदद् भृशं हेषाशब्दं कुर्वन् अश्वः यथा वडवया संगच्छते तथा अहं भगेन सह आगमम् । कनिक्रदद् इति। क्रन्देराह्वानार्थाद् ‘दाधर्ति' (पा ७,४,६५) इत्यादिसूत्रे इतिशब्दस्य प्रकारवाचित्वात् कनिक्रदच्छब्दः शत्रन्तोऽपि निपातितो द्रष्टव्यः।

इति पञ्चमेऽनुवाके चतुर्थं सूक्तम्।