अथर्ववेदः/काण्डं २/सूक्तम् २९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२८ अथर्ववेदः - काण्डं २
सूक्तं २.२९
अथर्वा
सूक्तं २.३० →
दे. १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः, ४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः। त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः।

दीर्घायुष्यम्

पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।
रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।
जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।
एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।
ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।
सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।
तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥


सायणभाष्यम्

‘पार्थिवस्य' इति सूक्तेन तृषार्तभैषज्यकर्मणि सूर्योदयकाले सूत्रोक्तप्रकारेण व्याधितम् उपवेश्य मथितं सक्तूदकम् अभिमन्त्र्य पाययेत् ।

अनेनैव सूक्तेन नद्यादिषु उदकम् अभिमन्त्र्य उद्धृत्य ‘सवासिनौ' (अ २,२९,६) इत्यर्धर्चेन व्याधिताव्याधितौ एकासनस्थौ एकवस्त्रपरिहितौ कृत्वा उभावपि मन्थं पाययेत् प्रयोक्ता।

अत्र सूत्रम् – “ 'पार्थिवस्य' इत्युद्यति पृष्ठसंहितावुपवेशयति । प्राङ्मुखं व्याधितं प्रत्यङ्मुखम् अव्याधितं शाखासूपवेश्य वैतसे चमसे उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थम् उपमथ्य अतृषिताय प्रयच्छति । तस्मिन् तृष्णां संनयति । उद्धृतम् उदकं पाययति । सवासिनाविति मन्त्रोक्तम्' (कौसू २७,९-१३ ) इति।

" 'पार्थिवस्य' (अ २,२९,१;२) इति द्वाभ्यां गोदानचौलकर्मणोः कुमारस्य मूर्ध्नि व्रीहियवशमीरभिमन्व्य प्रक्षिपेत् । सूत्रितं हि-- " 'शिवे ते स्ताम् ( अ ८,२,१४,१५ )' इति परिदानान्तानि। 'पार्थिवस्य' (अ २,२९,१;२), 'मा प्र गाम' (अ १३,१,५९; ६०) इति चतस्रः” (कौसू ५४,१७; १८ ) इति।

'आशीर्ण ऊर्जम्' इति तृतीयया तृतीयसवने पूतभृति आसिच्यमानम् आशिरम् अनुमन्त्रयते । उक्तं वैताने-- “आशिरं पूतभृत्यासिच्यमानम् ‘आशीर्ण ऊर्जम्' इत्यनुमन्त्रयते” (वैताश्रौ २२,१६ ) इति ।


पार्थिवस्य रसे देवा भगस्य तन्वो बले ।

आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥

पार्थिवस्य । रसे । देवाः । भगस्य । तन्वः । बले ।

आयुष्यम् । अस्मै । अग्निः । सूर्यः । वर्चः । आ । धात् । बृहस्पतिः ॥ १ ॥

पार्थिवस्य पृथिव्याः संबन्धिनः । पूर्ववत् पृथिव्या अञ् । मथ्यमानसक्त्वादिकस्य रसे सारभूते मन्थोदके तृषारोगार्तपुरुषेण 'पीते सति देवाः इन्द्राद्या भगस्य भजनीयस्य एतन्नाम्नो देवस्य तन्वः शरीरस्य संबन्धिनि बले वीर्ये । योजयन्तु इति शेषः। भगसदृशबलयुक्तं कुर्वन्तु इत्यर्थः । भगदेवताया अतिशयितबलत्वं तैत्तिरीयके समाम्नातम् -- 'श्रेष्ठो देवानां भगवो भगासि तत् त्वा विदुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रम् अजरं सुवीर्यं गोमद् अश्ववद् उपसन्नुदेह ।' (तैब्रा ३,१,१,८) इति । भगस्येति । भज सेवायाम् इत्यस्मात् पुंसि संज्ञायां घः प्रायेण' (पा ३,३,११८) इति घः । चजोः कु घिण्ण्यतोः' (पा ७,३,५२) इति कुत्वम् । यद्वा देवाः इन्द्राद्याः पार्थिवस्य व्रीहियवादिलक्षणस्य रसे सारांशे उक्तलक्षणे बले च इमं पुरुषम् । योजयन्तु इति वाक्यशेषः। अपि च अस्मै पुरुषाय अग्निः आयुष्यम् शतसंवत्सरलक्षणम् आ धात् आदधातु करोतु । तथा सूर्यः सर्वस्य प्रेरक आदित्यः बृहस्पतिः बृहतां मन्त्राणां पालको देवश्च अस्मै वर्चः शरीरकान्तिं श्रुताध्ययनजन्यं तेजश्च यथोचितम् आदधातु।


आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।

रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥

आयुः । अस्मै । धेहि । जातऽवेदः । प्रजाम् । त्वष्टः । अधिऽनिधेहि । अस्मै ।

रायः। पोषम् । सवितः । आ । सुव । अस्मै । शतम् । जीवाति । शरदः । तव । अयम् ॥२॥

हे जातवेदः जातानां वेदितरग्ने अस्मै आयुः शतसंवत्सरसंमितं धेहि प्रयच्छ । अग्नेरायुषो दातृत्वम् ‘आयुर्दा अग्ने' ( अ २,१३,१) इत्यादिमन्त्रसिद्धम् । तथा हे त्वष्टः अस्मै प्रजाम् पुत्रपौत्रादिलक्षणाम् अधिनिधेहि अधिकं स्थापय । ‘यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते' ( तै १,५,९,१;२ ) इत्यादिश्रुतौ त्वष्टुः प्रजानां बहुधोत्पादकत्वं प्रसिद्धम् । तथा हे सवितः सर्वस्य प्रेरक देव अस्मै रायः धनस्य गवादिलक्षणस्य पोषम् पुष्टिं समृद्धिम् आ सुव अभिमुखं प्रेरय । षू प्रेरणे । तौदादिकः । रायः। 'ऊडिदम्' (पा ६,१,१७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु' (पा ८,३,५३ ) इति विसर्जनीयस्य सत्वम् । सवितुर्धनप्रदत्वम् ' स हि रत्नानि दाशुषे सुवाति सविता भगः' (ऋ ५,८२,३ ) इत्यादिश्रुतिप्रसिद्धम् । हे अग्न्यादिदेवाः तव । प्रत्येकापेक्षया एकवचनम् । युष्मदनुगृहीतः सन् अयं शतं शरदः जीवाति जीवतु । जीव प्राणधारणे । लेटि आडागमः।


आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।

जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥

आऽशीः । नः । ऊर्जम् । उत। सौप्रजाःऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ।

जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वानः। अन्यान् । अधरान्। सऽपत्नान् ॥३॥

नः अस्माकम् आशीः आशिषम् आशास्यमानां धनधान्यादिसंपत्तिं धत्तम् इति संबन्धः। 'सुपां सुलुक् ” (पा ७,१,३९) इति द्वितीयैकवचनस्य सुः। यद्वा आशीः फलप्रार्थना । सत्या भवतु इति शेषः। आङः शासु इच्छायाम् इत्यस्मात् कर्मणि भावे वा क्विप् । 'आशासः क्वावित्वम्' (पावा ६,४,३४) इति वचनाद् उपधाया इत्वम् । तथा ऊर्जम् अन्नं हे द्यावापृथिव्यौ धत्तम् । उत अपिच सौप्रजास्त्वम् । सुप्रजसो भावः सौप्रजास्त्वम् । शोभनापत्यत्वं कुरुतम् । 'नित्यमसिच् प्रजामेधयोः' (पा ५,४,१२२ ) इत्यसिच् समासान्तः। छान्दसौ वृद्धिदीर्घौ । सचेतसौ समानमनसौ युवां दक्षम् । बलनामैतत् । बलं द्रविणम् धनं च धत्तम् प्रयच्छतम् । यद्वा आशीरिति रेफान्तोयं तृतीयसवने सोमावसेकार्थस्य पयसो वाचकः । तत् आशीराख्यं द्रव्यं पूतभृति आसिच्यमानं नः अस्मभ्यम् ऊर्जं शोभनापत्यत्वं च । करोतु इति शेषः। 'अपस्पृधेथाम्' (पा ६,१,३६ ) इत्यत्र 'श्राताःश्रितमाशीराशीर्ताः इति आङ्पूर्वात् श्रीञ् पाके इत्यस्मात् क्विपि शिरादेशो निपातितः। हे इन्द्र त्वत्प्रसादाद् अयं पुरुषः सहसा अभिभवनसाधनेन बलेन शत्रूणां जयं क्षेत्राणि च कृण्वानः आत्मसात् कुर्वाणः अन्यानपि सपत्नान् शत्रून अधरान् अधःकृतान् पराजितान् । करोतु इत्यर्थः।


इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।

एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥

इन्द्रेण । दत्तः। वरुणेन । शिष्टः । मरुत्ऽभिः । उग्रः । प्रऽहितः । नः । आ। अगन् ।

एषः । वाम् । द्यावापृथिवी इति । उपऽस्थे । मा । । क्षुधत् । मा । तृषत् ॥ ४ ॥

तृष्णागृहीतः पुरुषः इन्द्रेण देवेन दत्तः लब्धजीवनः। 'दो दद् घोः' ( पा ७,४,४६) इति दद्भावः। वरुणेन अरिष्टनिवारकेण देवेन शिष्टः अनुज्ञातः । 'शास इदङ्हलोः' (पा ६,४,३४ ) इत्युपधाया इत्वम् । 'शासिवसिघसीनां च' (पा ८,३,६०) इति षत्वम् । मरुद्भिः मरुद्गणैः उग्रः उद्गूर्णबलः सन् प्रहितः प्रेषितः। हि गतौ इत्यस्मात् कर्मणि निष्ठा । नः अस्मान् आगन् आगमत् । गमेर्लुङि 'मन्त्रे घस” (पा २,४,८०) इति च्लेर्लुक् । 'मो नो धातोः' (पा ८,२,६४ ) इति नत्वम् । एवम् आगत एषः द्यावापृथिवी हे द्यावापृथिव्यौ वाम् युवयोरुपस्थे उत्सङ्गे वर्तमानो मा क्षुधत् क्षुत्पीडां मा प्रापत् । मा तृषत् तृषार्तिं मा गमत् । क्षुध बुभुक्षायाम् , ञितृष पिपासायाम् । उभयोर्माङि लुङि पुषादित्वाद् अङ्।


ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।

ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥

ऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पयः । अस्मै । पयस्वती इति । धत्तम् ।

ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । दे॒वाः। मरुतः। ऊर्जम् । आपः ॥ ५॥

ऊर्जस्वती हे ऊर्जस्वत्यौ बलवत्यौ द्यावापृथिव्यौ । ऊर्ज बलप्राणनयोः इत्यस्माद् असुन् । 'तसौ मत्वर्थे' (पा १,४,१९) इति भत्वाद् रुत्वाभावः । अस्मै तृषिताय ऊर्जम् बलं बलकरम् अन्नं वा धत्तम् प्रयच्छतम् । तथा पयस्वती हे पयस्वत्यौ अस्मै पयः उदकं धत्तम् । प्रार्थितं फलं लब्धम् इति सहला रोगनिवृत्तये सिद्धवद् अनुवदति ऊर्जम् इत्यर्धर्चेन । द्यावापृथिवी उक्तलक्षणे ते द्यावापृथिव्यौ अस्मै ऊर्जम् प्रार्थितम् अन्नं बलं वा अधाताम् दत्तवत्यौ । तथा विश्वे देवाः मरुतः आपः अब्देवताश्च ऊर्जम् । अधुः इति वचनविपरिणामेन संबन्धः।


शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।

सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥

शिवाभिः । ते । हृदयम् । तर्पयामि । अनमीवः । मोदिषीष्ठाः । सुऽवर्चाः ।

सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनोः। रूपम् । परिऽधाय । मायाम् ॥ ६॥

हे तृषार्त ते तव हृदयं नीरसं शिवाभिः सुखकरीभिरद्भिस्तर्पयामि। 'युष्मत्तत्ततक्षुःष्वन्तःपादम्' (पा ८,३,१०३) इति भिसो विसर्जनीयस्य षत्वम् । अनन्तरं त्वम् अनमीवः तृषारोगरहितः सुवर्चाः शोभनतेजोयुक्तः सन् मोदिषीष्ठाः मोदस्व । मुद हर्षे इत्यस्माद् आशिषि लिङ् । अनमीव इति । बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२) इति उत्तरपदान्तोदात्तत्वम् । सुवर्चा इति। बहुव्रीहौ 'सोर्मनसी अलोमोषसी' (पा ६,२,११७ ) इत्युत्तरपदाद्युदात्तत्वम् । सवासिनौ समानम् एकं वस्त्रं वसानौ, समानम् एकत्र वसन्तौ वा । वस आच्छादने इत्यस्माद् वस निवासे इत्यस्माद् वा समानशब्दोपपदाद् 'व्रते' (पा ३,२,८०) इति णिनिप्रत्ययः । तत्र सूत्रे व्रतशब्देन शास्त्रीयो नियम उक्तः। 'समानस्य च्छन्दसि' (पा ६,३,८४) इत्यादिना समानशब्दस्य सभावः । व्याधिताव्याधितो तौ अश्विनोः देवभिषजो रूपं मायाम् मायामयं परिधाय धृत्वा एतं मन्थं पिबताम् पीतं कुरुताम् । यद्यपि सक्तूदकं द्विशलाकया समिधा मथितं मन्थ उच्यते तथापि अत्र सूत्रे ( कौसू २७,१० ) विशेषविधानाद् वैतसे चमसे बैतसशलाकाभ्यां मथितं सक्तूदकं मन्थशब्देन विवक्षितम् ।


इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।

तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥

इन्द्रः। ए॒ताम् । ससृजे । विद्धः । अग्रे। ऊर्जाम् । स्वधाम् । अजराम् । सा । ते । ए॒षा ।

तया । त्वम् । जीव । शरदः । सुऽवर्चाः । मा । ते । आ । सुस्रोत् । भिषजः।ते। अक्रन् ॥ ७॥

अग्रे पुरा विद्धः वृत्राद्यसुरैस्ताडित इन्द्रः तृषार्तः सन् तन्निवृत्तये ऊर्जम् बलकरीं स्वधाम् । अन्ननामैतत् । अन्नवत्पुष्टिकरीम् अजराम् जराया निवर्तयित्रीम् एताम् मन्थलक्षणाम् ऊर्जं ससृजे सृष्टवान् । हे व्याधित ते तुभ्यं सा एषा दीयमाना। सेवकबलकरत्वाद्युक्तगुणसद्भावप्रतिपादनाय तत्तादात्म्यव्यपदेशः। विद्ध इति । व्यध ताडने इत्यस्माद् निष्ठायां 'ग्रहिज्या' (पा ६,१,१६) इत्यादिना संप्रसारणम् । ऊर्जम् इति । ऊर्ज बलप्राणनयोः। अस्माद् भावे क्विप् । ऊर्ग बलं तद्वन्तं करोतीति णिचि 'विन्मतोर्लुक्' (पा ५,३,६५) । ततः कर्तरि क्विप् । यद्वा ऊर्ज्यते प्राण्यते अनयेति अण्यन्तादेव वा करणे क्विप् । स्वधेति । स्वेभ्यो धीयते स्वस्मिन् वा धीयत इति स्वधा । 'घञर्थे कविधानम्' ( पावा ३,३,५८ ) इति कः। स्वम् आत्मानं भोक्तृशरीरं दधाति पुष्णातीति वा स्वधा । ‘आतोऽनुपसर्गे कः (पा ३,२,३ ) । तया ऊर्जा सुवर्चाः सन् त्वं शरदः शतसंख्याका जीव । पीतो मन्थस्ते तव शरीरात् मा आ सुस्रोत् प्रच्युतो मा भूत् । शरीरे स्थित्वा बलादिकं करोतु इत्यर्थः। भिषजः आदिवैद्यास्ते तव अक्रन् इदं भैषज्यम् अकार्षुः । स्रु गतौ । लङि छान्दसः शपः श्लुः । अक्रन् । करोतेः 'मन्त्रे घस" (पा २,४,८०) इति च्लेर्लुक् ।

इति पञ्चमेनुवाके तृतीय सूक्तम् ।