अथर्ववेदः/काण्डं २०/सूक्तम् ११७

विकिस्रोतः तः
← सूक्तं २०.११६ अथर्ववेदः - काण्डं २०
सूक्तं २०.११७
वसिष्ठः।
सूक्तं २०.११८ →
दे. इन्द्रः। विराट्।

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ॥३॥