अथर्ववेदः/काण्डं २०/सूक्तम् ०७१

विकिस्रोतः तः
← सूक्तं २०.०७० अथर्ववेदः - काण्डं २०
सूक्तं २०.०७१
मधुच्छन्दाः।
सूक्तं २०.०७२ →
दे. इन्द्रः। गायत्री।

महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
द्यौर्न प्रथिना शवः ॥१॥
समोहे वा य आशत नरस्तोकस्य सनितौ ।
विप्रासो वा धियायवः ॥२॥
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
उर्वीरापो न काकुदः ॥३॥
एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
पक्वा शाखा न दाशुषे ॥४॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
सद्यश्चित्सन्ति दाशुषे ॥५॥
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥६॥
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महामभिष्टिरोजसा ॥७॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥८॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥९॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥१०॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥११॥
अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥१२॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।
विश्वायुर्धेह्यक्षितम् ॥१३॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥१४॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
होम गन्तारमूतये ॥१५॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१६॥